________________
ननु वस्तुमात्रं सत्त्वासत्त्वादिधर्ममयम् । तत्र सदंशं ज्ञेयतया विभज्य तद्व्यपदेशो यत्र क्रियते तत् प्रथमस्य भङ्गस्य ज्ञानम् । सदंशसद्भावज्ञानेऽपि यावद् असदंशाभावज्ञानं नास्ति तावद् याथार्थ्यं नोपलब्धम् । न च तत्प्रतिषेधाभावाद् याथार्थ्यमस्त्येवेति वाच्यम् । सदंशप्रस्तावे तदितरस्याप्रस्तुतत्वाद् इति चेद्, अत्र ब्रूमः । प्रथमोऽयं भङ्गो न सामग्र्येण वस्तुस्वरूपं दर्शयति, विशेषावगाहित्वात् । एको विशेष इतरविशेषसापेक्ष इति तेषामपि समावेशोऽपरिहार्यः । प्रथमभङ्गे प्रस्तुतविशेषस्यावगाहः । इतरेषां त्ववगाहो द्वितीयादिभङ्गेन । तत्र द्वितीयस्तावदयम् । स्याद् नास्ति एव ।
द्रव्यस्य प्रस्तुतधर्माश्रयत्वम्, इतरधर्मानाश्रयत्वेन गृह्यते । यथा घटस्य घटत्वाश्रयत्वम्, तदितरपटत्वाद्यनाश्रयत्वेन गृह्यते । घटत्वाश्रयत्वम् अस्तिधर्मः । पटात्वाद्यनाश्रयत्वं नास्तिधर्मः । अस्तिधर्मेण द्रव्यस्य घटत्वावच्छिन्नत्वेन प्रतीतिः । नास्तिधर्मेण द्रव्यस्य पटत्वाद्यनवच्छिन्नत्वेन प्रतीतिः । अस्तिधर्मस्य विषयो घटत्वम् । नास्तिधर्मस्य विषयः पटत्वादिकम् । प्रथमभङ्गेऽस्तिधर्मविषयत्वेन घटत्वावच्छिन्नत्वप्रकारकं ज्ञानम् । द्वितीयभङ्गेऽपि नास्तिधर्मविषयत्वेन पटत्वाद्यनवच्छिन्नत्वप्रकारकं ज्ञानम् । प्रथमभङ्गे पटत्वाद्यनवच्छिन्नत्वमप्रस्तुतम् । द्वितीयभङ्गे घटत्वाद्यवच्छिन्नत्वमप्रस्तुतम् ।
ननु गम्यमानत्वादस्य निर्वचनं व्यर्थम्, घटसत्त्वज्ञाने पटाद्यसत्त्वस्यापि ज्ञानाद् इति चेद् , नैतद् । गम्यमानत्वादेव निर्वचनं सार्थकम् । गम्यमानस्य निर्वचननिषेधे तु ज्ञानमात्रस्योक्तिनिषेधप्रसङ्गः ।
अथ. नाऽभावप्रतीति: बोधविशेषजननी, शून्यत्वाद् । आकाशकुसुमस्येव तद्विषयस्यानुपलम्भाद् इति चेद्-माऽस्तु अभावस्य प्रतीतिः । निषेधमुखी प्रतीतिस्तु आकाशानवस्थितजलदवत् न विरुद्धा । यथाशत्रुर्नास्तीति मे शर्म क्लेशो नास्तीति मे सुखम् । रोगो नास्तीति मे सौख्यं लोभो नास्तीति मे शमः ।। धनं नास्तीति मे चिन्ता नेत्रं नास्तीति मे व्यथा ।
स्याद्वादमञ्जरी
ALT
R
A 13