________________
शाश्वती । पर्यायप्रवाहस्तु परिवर्तमानः । यथा घटवस्तु घटरूपेण द्रव्यरूपेण च प्रतीत्यम् । द्रव्यरूपेण घटपर्यायाभावेऽपि द्रव्यत्वसत्त्वात् तन्नित्यम् । घटरूपं तु तदाकाररूपेण सद्, आकारविलये चासद् इत्यनित्यम् ।
घटत्वाश्रयं द्रव्यं पुनः द्रव्यत्वेन पटत्वाद्याश्रयमपि वर्तते । घटज्ञानावसरे पटत्वाद्या विषया न सन्ति । तेन केवलं घटत्वावच्छिन्नास्तित्वबोधः । एवञ्च प्रतीयमानघटत्वपर्यायविशिष्टं द्रव्यत्वप्रकारकं ज्ञानं प्रथमभङ्गस्य विषयः । द्रव्यनिष्ठघटधर्मप्रतीतिरिति भावः । - सेयं द्रव्यादिचतुष्टयेन साध्या । द्रव्यनिष्ठविशेषधर्मप्रतीतिः द्रव्येण क्षेत्रेण कालेन भावेन च कर्तव्या इत्याशयः । तत्र द्रव्येणोपादानविचारः । यथा घटोऽयं सुवर्णनिर्मितो वा रजतनिर्मितो वा । यदुपादानं नास्ति तस्य विचारो नास्ति । स च जलादेः । क्षेत्रेणाधारविचारः । यथा घटोऽयं कर्णावतीनिर्मितः । यत् क्षेत्रमाधारो नास्ति तस्य विचारो नास्ति । स च श्रावस्त्यादेः । कालेन समयविचारः । यथा घटोऽयं शीतकालनिर्मितः । यत्समये निर्मितो नास्ति तस्य विचारो नास्ति । स च ग्रीष्मादः । भावेनाकारविचारः । यथा घटोऽयं रक्तवर्णः । यद्भावेन संबद्धत्वं नास्ति तस्य विचारो नास्ति । यथा श्यामवर्णादेः । द्रव्यादिचतुष्टयेनावगमः सहजः क्रमः ।
स्याद् इति सापेक्षता । प्रस्तुतधर्माश्रयेण द्रव्यमेतद्रुपमस्तीति सत्यम्, . एतत्तु परं सत्यं यद् वस्तु न केवलं प्रस्तुतधर्माश्रयम् । अनन्तधर्मात्मकत्वात्तस्य । तेन प्रस्तुतधर्मेभ्य इतरैरपि धर्मः सापेक्षता स्वीकार्या इति स्यात्पदस्याशयः ।
एवेति निश्चयः । एतेन प्रस्तुतावबोधस्य स्व-रूपेण नितान्तमुपपन्नत्वं साध्यते । एवञ्च - स्याद् इति-पटत्वादिधर्मेषु सत्सु-अपि, . अस्तीति - द्रव्यं प्रस्तुतधर्मेण युक्तम् इत्येतत्, एवेति - निश्चितमस्ति ।
पटत्वादिधर्मरहितत्वेऽपि तत्सापेक्षं, घटत्वधर्मसहितं यद् द्रव्यम्, तस्य तत्प्रकारेण निश्चयकोटिकं ज्ञानं प्रथमो भङ्गः ।। (12R isindurikar स्याद्वादमञ्जरी