________________
स्याद् अस्ति एवेति प्रथमः । स्याद् नास्ति एवेति द्वितीयः । स्याद् . अवक्तव्यम् एवेति तृतीयः । स्याद् अस्ति एव स्याद् नास्ति एवेति चतुर्थः । स्याद् अस्ति, एव स्याद् अवक्तव्यमेवेति पञ्चमः । स्याद् नास्ति एव स्याद् अवक्तव्यमेवेति षष्ठः । स्याद् अस्ति एव स्याद् नास्ति एव स्याद् अवक्तव्यमेवेति
सप्तमः ।
एकस्य वस्तुनः सर्वेषामेव धर्माणमवगमे ज्ञानं सम्पूर्णं भवति । कस्यचिदेव धर्मस्य ज्ञानेन वस्तुतत्त्वावगमः सम्पूर्णो न भवति । छद्मस्थानां तु सर्वधर्मावगमो नास्तीति तेषां बोधोऽसम्पूर्णः । तथापि वस्तुनिष्ठधर्मविशेषस्य यथार्थरूपेणावगमे तद्धर्मावच्छिन्नत्त्वेन वस्तुनः तत्प्रकारकं ज्ञानं प्रमाणं भवति । धर्मविशेषाश्च ते सप्तप्रकारेण बोधगोचराः ।
भङ्गेषु चैषु स्यात्पदृम् इतरधर्मसापेक्षतां दर्शयति । अस्ति नास्तिअवक्तव्यपदानि वस्तुनो धर्मविशेषान् दर्शयन्ति । एवकारश्च ज्ञानस्य निश्चितार्थत्वं दर्शयति ।
इतरधर्मनिरपेक्षं ज्ञानमेकाङ्गी भवति । वस्तुनो धर्मविशेषास्तु ज्ञानविषयाः एवकाररहितं तु ज्ञानमनिश्चितं स्याद् । तेन त्रयाणामेकत्र समावेशः ।
'अथ वस्तुधर्माणामानन्त्येऽपि प्रत्येकधर्मस्यावगमः सप्तप्रकार इति सप्तभङ्ग्या अपि आनन्त्यं प्रसक्तमिति चेद्, नानिष्टमेतद् । वस्तुधर्माणामानन्त्ये यदि न दोषस्तर्हि तेषामबंगमप्रकाराणामप्यानन्त्ये कुतो नाम दोषः । यांवन्त एव वस्तुधर्मा ज्ञानविषयाः, ते सर्वेऽपि सप्तभङ्गीप्रकारेणैव विषयतां प्रतिपद्यन्त इति
भावः ।
1
अत्र स्याद् अस्ति एव इति प्रथमो भङ्ग । अस्तीति सत्त्वप्रतीतिः । वस्तुनः सद्धर्मावच्छिन्नत्वबोधोऽस्य विषयः । सत्त्वे सति ज्ञानम् । सत्त्वाभावे तु ज्ञानाभावः प्रसिद्धः । अस्तित्वधर्मो वस्तुनि, तदवगमश्च ज्ञातरि । यत एव वस्तु अस्ति अत एवं ज्ञातुं पार्यत इति तात्पर्यम् ।
सद्धर्मावच्छिन्नं वस्तुमात्रपि द्रव्यत्वेन नित्यं, पर्यायत्वेनानित्यम् । द्रव्यत्वधारा स्याद्वादमञ्जरी बैंक ॐ ॐ ॐ ॐ ॐ ॐ ॐ 11