________________
दुःखनिवृत्तिरेवोक्तरूपा निःश्रेयसमिति।
श्लो. ९ स्याद्वादमञ्जर्यामात्मनो विभुत्वस्य खण्डनं तदर्थमात्मनो विभुत्वं प्रशस्तपादभाष्ये आत्मप्रकरणे-'तथा चात्मेतिवचनात्परममहत्परिमाणम्' ।
किं च गौतमसूत्रेषु वात्स्यायनभाष्ये-(३-२-२०, २१) .
'योगी खलु ऋद्धौ प्रादुर्भूतायां विकरणधर्मा निर्माय सेन्द्रियाणि शरीराऽन्तराणि तेषु तेषु युगपज्ज्ञेयानुपलभते । तच्चैतद्विभौ ज्ञातर्युपपद्यते नाऽणौ मनसीति । विभुत्वे वा मनसो ज्ञानस्य नाऽऽत्मगुणत्वप्रतिषेधः । विभु मनस्तदन्तःकरणभूतमिति तस्य सर्वेन्द्रियैर्युगपत्संयोगाद्युगपज्ज्ञानान्युत्पद्येरनिति ।।२०।।
तदात्मगुणत्वेऽपि तुल्यम् ।।३-२-२१॥ विभुरात्मा सर्वेन्द्रियैः संयुक्त इति युगपज्ज्ञानोत्पत्तिप्रसङ्ग इति ।।२१।।
तत्रैव स्याद्वादमञ्जयां 'त्वयाऽऽत्मनां बहुत्वमिष्यते' इत्यादिनाऽऽत्मनानात्वं खण्ड्यते । तदर्थ आत्मनानात्वं प्रशस्तपादभाष्ये-आत्मनिरूपणे'व्यवस्थावचनात्संख्यापृथक्त्वमप्यत एव' । वैशेषिकसूत्रोपस्कारे (३-२-२०)
सिद्धान्तमाह
व्यवस्थातो नाना ।।३-२-२०।। - नाना आत्मानः कुतः व्यवस्थातः । व्यवस्थाः प्रतिनियमः यथा कश्चिदाढ्यः कश्चिद् रङ्कः, कश्चित्सुखी, कश्चिदुःखी कश्चिदुञ्चाभिजनः, कश्चिनीचाभिजनः, कश्चिद्विद्वान्, कश्चिज्जाल्म इतीयं व्यवस्था आत्मभेदमन्तरेणाऽनुपपद्यमाना साधयत्यात्मना भेदम् । न च जन्मभेदेन बाल्यकौमारवार्धक्यभेदेन वा, एकस्याऽप्यात्मना यथा व्यवस्था तथा चैत्रमैत्रादिदेहभेदेऽपि स्यादिति वाच्यम् । कालभेदेन विरुद्धधर्माऽध्याससम्भवात्' ।।२०।।
श्लो. १० स्याद्वादमञ्जर्यां छलादिविषये यदुक्तं तज्ज्ञानार्थं छलादिप्रतिपादकानि न्यायसूत्राणि १०-२० (अ. १।२।१०-२०) (२३२NNNNNNNNNhainin.in स्याद्वादमञ्जरी)