________________
प्रत्यक्षवेद्यताऽपि । योगिनां योगजधर्मबलेनाऽऽगामिनो दुःखध्वंसस्य प्रत्यक्षोपगमाञ्च । तथाऽपि तुल्याऽऽयव्ययया नाऽयं पुरुषार्थो, दुःखवत्सुखस्याऽपि हानेः द्वयोरपि समानसामग्रीकत्वादिति चेद्, उत्सर्गतो वीतरागाणां दुःखदुर्दिनभीरूणां सुखखद्योतिकामात्रेऽलम्प्रत्ययवतां तत्र प्रवृत्तेः । ननु तथापि दुःखनिवृत्तिर्न पुरुषार्थः अनागतदुःखनिवृत्तेरशक्यत्वात् । अतीतदुःखस्याऽतीतत्वात् वर्तमानदुःखस्य पुरुषप्रयत्नमन्तरेणैव निवृत्तेरिति चेन्न । हेतूच्छेदे पुरुषव्यापारात् प्रायश्चित्तवत् । तथाहि सवासेन मिथ्याज्ञानं संसारहेतुस्तदुच्छेदश्चात्मतत्त्वज्ञानात् तत्त्वज्ञानञ्च योगविधिसाध्यमिति तदर्थ प्रवृत्त्युपपत्तेः ।
ननु नित्यसुखाऽभिव्यक्तिरेव मुक्तिन्तु दुःखाभाव इति चेन्न नित्यसुखे प्रमाणाऽभावात् । भावे वा नित्यं तदभिव्यक्तेर्मुक्तसंसारिणोरविशेषापाताद् अभिव्यक्तरुत्पाद्यत्वेन तनिवृतौ पुनः संसाराऽऽपत्तेश्च । ... - ब्रह्माऽऽत्मनि जीवाऽऽत्मलयो मुक्तिरिति चेन्न । लयो यद्येकीभावस्तदा बाधात् नहि द्वयमेकं भवति । लिङ्गशरीराऽपगमो. लयो लिङ्गश्चैकादशेन्द्रियाणि । तेषां शरीरस्य च विगमो लय इति चेन । एतावता दुःखसामग्रीविरहस्योक्तत्वात् । तथा च दुःखाऽभाव एव मुक्तिरिति पर्यवसानात्। एतेनाऽविद्यानिवृत्तौ केवलाऽऽत्मस्थितिर्मुक्तिः आत्मा च विज्ञानसुखाऽऽत्मकः इत्येकदण्डिमतमपास्तम्। आत्मनो ज्ञानत्वे सुखत्वे च प्रमाणाऽभावात् । न च 'नित्यं विज्ञानमानन्दं ब्रह्म' इति श्रुतिर्मानम् । तस्या ज्ञानवत्त्वा- ऽऽनन्दवत्त्वप्रतिपादकत्वात् । भवति हि अहं जाने अहं सुखीति प्रतीतिः नत्वहं ज्ञानं अहं सुखमिति । किञ्च ब्रह्मणो इदानीमपि सत्त्वाद् मुक्तसंसारिणोरविशेषाऽऽपत्तिः अविद्यानिवृत्तेश्चाऽपुरुषार्थत्वाद् ब्रह्मणश्च नित्यत्वेनाऽसाध्यत्वात्, तत्साक्षात्कारस्य तदात्मकत्वेनाऽसाध्यत्वात्, एवमानन्दस्याऽपि तदात्मकत्वेनाऽसाध्यत्वमेवेति तदर्थं प्रवृत्त्यनुपपत्तिरेव ।
निरुपप्लवा चित्सन्ततिर्मुक्तिरिति चेन । दुःखादिरूपस्य उपप्लवस्य विगमो यदि निरुपप्लवत्वं तदा तन्मात्रस्यैव पुरुषार्थत्वेन चित्सन्ततेरनुवृत्तौ प्रमाणाऽभावः तदनुवृत्तेरपि शरीराऽऽदिसाध्यत्वेन संसारानुवृत्तेरावश्यकत्वादिति सिद्धं स्याद्वादमञ्जरी AAAAAAAAAMANNA २३१