________________
पुरुषव्यापारात्' इत्यस्याऽपि प्रागभावपरिपालन एव तात्पर्यात्। अत एव गौतमीयद्वितीय सूत्रे 'दुःखजन्मप्रवृत्तिदोषमिथ्या-ज्ञानानामुत्तरोत्तराऽपाये तदनन्तरापायादपवर्ग:' इत्यत्र कारणाऽभावात् कार्याऽभावाऽभिधानं दुःखप्रागभावरूपामेव मुक्तिं द्रढयति । नहि दोषाऽपाये प्रवृत्त्यपायः, प्रवृत्त्यपाये जन्माऽपायः, जन्माऽपाये दुःखाऽपायः इत्यपायो ध्वंसः । किन्त्वनुत्पत्तिः । सा प्रागभाव एव । न च प्रतियोग्यप्रसिद्धिः सामान्यतो दुःखत्वेनैव प्रतियोगिप्रसिद्धेः प्रायश्चित्तवत्, तत्राऽपि प्रत्यवायध्वंसद्वारा दुःखाऽनुत्पत्तेरेवापेक्षितत्वात् । लोकेऽप्यहिकण्टकाऽदिनिवृत्तेर्तुःखाऽनुत्पत्तिफलकत्वदर्शनात् दुःखसाधननिवृत्त्यर्थमेव प्रेक्षावतां प्रवृत्तिः ।
केचित्तु दुःखाऽत्यन्ताभाव एव मुक्तिः । स च यद्यपि नाऽऽत्मनिष्ठस्तथापि लोष्ठाऽऽदिनिष्ठ एवात्मनि साध्यते । सिद्धिश्च तस्य दुःखप्रागभावाऽसहवर्तिदुःखध्वंस एव तस्य तत्सम्बन्धतयोपगमात्, तस्मिन् सति तंत्र दुःखाऽत्यन्ताभावप्रतीतेः । एवञ्च सति 'दुःखेनाऽत्यन्तं विमुक्तश्चरति' इत्यादिश्रुतिरप्युपपादिता भवतीत्याहुः ।
तन्न । दुःखात्यन्ताऽभावस्याऽसाध्यत्वेनाऽपुरुषार्थत्वात् । दुःखध्वंसस्य च न तत्र सम्बन्धत्वं परिभाषापत्तेः 'दुःखेनात्यन्तं विमुक्तश्चरति' इति श्रुतेर्तुःखप्रागभावस्यैव कारणविघटनमुखेनाऽत्यन्ताऽभावसमानरूपत्वतात्पर्यकत्वात् । नन्वयं न पुरुषार्थः निरुपाधीच्छाविषयत्वाऽभावात् दुःखकाले सुखं तावनोत्पद्यते इति सुखार्थिनामेव दुःखाऽभावार्थं प्रवृत्तेरिति चेन्न ।वैपरीत्यस्याऽपि सुवचत्वात् सुखेच्छाऽपि दुःखाऽभावोपाधिकीत्येव किं न स्यात् । शोकाऽकुलानां सुखविमुखानामपि दुःखाऽभावमात्रमभिसन्धाय विषभक्षणोद्वन्धनादौ प्रवृत्तिदर्शनात् । ननु पुरुषार्थोऽप्ययं ज्ञानमय एव । मुक्तेस्तु दुःखाभावस्य ज्ञायमानतैव नास्ति । अन्यथा मूर्छाद्यवस्थाऽर्थमपि प्रवर्तेतेति चेन्न । श्रुत्यनुमानाभ्यां ज्ञानमानस्याऽवेद्यत्वाऽनुपपत्तेः। अस्ति हि श्रुतिः ‘दुःखेनाऽत्यन्तं विमुक्तश्चरति' तमेव विदित्वाऽतिमृत्युमेति' इत्यादिका । अनुमानमप्यस्तिदुःखसन्ततिरत्यन्तमुच्छिद्यते सन्ततित्वात् प्रदीपसन्ततिवदित्यादि । चरमदुःखध्वंसस्य दुःखसाक्षात्कारेण क्षणं विषयीकरणात्
(२३०dankrantikari स्याद्वादमञ्जरी)