________________
स्यादत आह
सदितिलिङ्गाऽविशेषात् विशेषलिङ्गाऽभावाचैको भावः ।।१-२-१७ ।।
सदित्याऽऽकारकज्ञानं शब्दप्रयोगो वा सत्ताया लिङ्गम् । तञ्च द्रव्यगुणकर्मसु समानमविशिष्टम् । तेन भावः सत्ता एकैव तेषु वर्तते अन्यथा द्रव्यत्वाऽऽदिभिस्तुष्यव्यक्तिकतया सत्ता वा न स्यात् तानि वा न स्युः । विशेषलिङ्गाऽभावाञ्चेति । विशेषो भेदस्तत्र यल्लिङ्गमनुमानं तदभावाञ्च न भेद इत्यर्थः । भवति हि स एवाऽयं दीप इत्यनुगमस्तत्र यथा विशेषलिङ्गं दीर्घह्रस्वत्वादिपरिमाणभेदस्तथाऽत्र विशेषलिङ्गं नास्तीति भावः ।।१७।।'
प्रशस्तपादभाष्यं च-तत्र सत्तासामान्यं परमनुवृत्तिप्रत्ययकारणमेव । यथा परस्परविशिष्टेषु चर्मवस्त्रकम्बलाऽऽदिष्वेकस्मान्नीलद्रव्याऽभिसम्बन्धात् नीलं नीलमिति प्रत्ययाऽनुवृत्तिः तथा परस्परविशिष्टेषु द्रव्यगुणकर्मस्वविशिष्टा सत्सदिति प्रत्ययाऽनुवृत्तिः सा चाऽर्थान्तराद्भवितुमर्हतीति यत्तदऽर्थान्तरं सा सत्तेति सिंद्धा । सत्ताऽनुसम्बन्धात् सत्सदिति प्रत्ययाऽनुवृत्तिः तस्मात् सा सामान्यमेव ।' .. ___अत्रैव श्लोके मुक्ति: 'न संविदानन्दमयी' इत्यादिना खण्डिता तदर्थं मुक्तिस्वरूपं वैशेषिकसूत्रोपस्कारे १-१-४. .
'निःश्रेयसमात्यन्तिकी दुःखनिवृत्तिः । दुःखनिवृत्तेश्चाऽऽत्यन्तिकत्वं समानाऽधिकरणदुःखप्रागभावसमानकालीनत्वम्, युगपदुत्पन्नसमानाऽधिकरणसर्वात्मविशेषगुणध्वंससमानकालीनत्वं वा । अशेषविशेषगुणध्वंसावधिकदुःखप्रागभावो वा मुक्तिः । न चाऽसाध्यत्वान्नाऽयं पुरुषार्थः कारणविघटनमुखेन प्रागभावस्याऽपि साध्यत्वात् । न च तस्य प्रागभावत्वक्षतिः प्रतियोगिजनकाऽभावत्वेन तथात्वात् । जनकत्वञ्च स्वरूपयोग्यतामात्रम् । नहि प्रागभावश्चरमसामग्री येन तस्मिन् सति कार्यमवश्यं भवेत् । तथा सति कार्यस्याऽप्यनादित्वप्रसङ्गात् । तथा च यथा सहकारिविरहादियन्तं कालं नाजीजनत् तथाग्रेऽपि तद्विरहान जनयिष्यति, ‘हेतूच्छेदे
स्याद्वादमञ्जरी
naukarinaukri
२२९)