________________
'वचनविघातोऽर्थविकल्पोपपत्त्या छलम् ।।१-२-१०।। . . तत्रिविधं वाक्छलं सामान्यछलमुपचारछलं चेति ।।१-२-११।। अविशेषाऽभिहितेऽर्थे वक्तुरभिप्रायादर्थान्तरकल्पना वाक्छलम् ।।१-२-१२ । ।
सम्भवतोऽर्थस्याऽतिसामान्ययोगादसम्भूताऽर्थकल्पना सामान्यछलम् ।।१-२-१३।। - धर्मविकल्पनिर्देशेऽर्थसद्भावप्रतिषेध उपचारछलम् ।।१-२-१४।।
वाक्छलमेवोपचारछलं तदविशेषात् ।।१-२-१५।। .. न तदर्थान्तरभावात् ।।१-२-१६।। अविशेषे वा किञ्चित्साधादेकच्छलप्रसङ्गः ।।१-२-१७ ।। साधर्म्यवैधाभ्यां प्रत्यवस्थानं जातिः ।।१-२-१८ ।। विप्रतिपत्तिरप्रतिप्रत्तिश्च निग्रहस्थानम् ।।१-२-१९ ।। . तद्विकल्पाज्जातिनिग्रहस्थानबहुत्वम् ।।१-२-२०।।.
तत्रैव प्रमाणप्रमेयलक्षणविषये यदुच्यते तदर्थं न्यायसूत्रे भाष्ये उपलब्धिहेतुश्च प्रमाणम् । प्रमेयं तूपलब्धिविषयः तथा च प्रमेयविषयेऽन्यत्र १।१।९ गौतमसूत्रंसभाष्यम् ।
'किं पुनरनेन प्रमाणेनाऽर्थजातं प्रमातव्यमिति तदुच्यते- आत्मशरीरेन्द्रियाऽर्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखाउँपवर्गास्तु प्रमेयम् ।।१-१-९।।
तत्राऽऽत्मा सर्वस्य द्रष्टा सर्वस्य भोक्ता सर्वज्ञः सर्वाऽनुभावी । तस्य भोगाऽऽयतनं शरीरम्। भोगसाधनानीन्द्रियाणी । भोक्तव्या इन्द्रियार्थाः । भोगो बुद्धिः । सर्वार्थोपलब्धौ नेन्द्रियाणि प्रभवन्तीति सर्वविषयमन्तःकरणं मनः । शरीरेन्द्रियाऽर्थबुद्धिसुखदुःखवेदनानां निवृत्तिकारणं प्रवृत्तिदोषाश्च । नास्येदं शरीरमपूर्वमनुत्तरं च । पूर्वशरीराणामादिर्नास्ति, उत्तरेषामवर्गोऽन्त इति प्रेत्यभावः । ससाधनसुखदुःखोपभोगः फलम् । दुःखमिति नेदमनुकूलवेदनीयस्य सुखस्य प्रतीतेः प्रत्याख्यानं किं तर्हि जन्मन एवेदं ससुखसाधनस्य दुःखाऽनुषङ्गाद्दुःखे-नाऽविप्रयोगः, स्याद्वादमञ्जरी instantlnANANA २३३)