________________
द्विविधबाधनायोगादुःखमिति । समाधिभावनमुपदिश्यते । समाहितो भावयति भावयनिविद्यते निर्विण्णस्य वैराग्यं विरक्तस्यापवर्ग इति जन्ममरणप्रबन्धोच्छेदः सर्वदुःखप्रवहणमपवर्ग इति । अस्त्यन्यदपि द्रव्यगुण-कर्मसामान्यविशेषसमवायाः प्रमेयं तद्भेदेन चाऽपरिसङ्घयेयम् । अस्य तु तत्त्वज्ञानादपवर्गो मिथ्याज्ञानात्संसार इत्यतः एतदुपदिष्टं विशेषेणेति ।।९।।'
तत्रैव जातिश्चतुर्विंशतिविधा निग्रहस्थानं द्वाविंशतिविधं हेत्वाभासाश्च पञ्च खण्डितास्तदर्थं तेषां सर्वेषां स्वरूपं प्रदर्श्यते (गौ. सू. अ. ५ संपूर्णः अ. १।२।४।-९)
'साधर्म्यवैधयोत्कर्षांपकर्षवर्याऽवििवकल्पसाध्यप्राप्यप्राप्तिप्रसङ्गप्रतिदृष्टान्ताऽनुत्पत्तिसंशयप्रकरणहेत्वाऽपत्त्यविशेषोपपत्त्युपलब्ध्यनुपलब्धिनित्याऽनित्यकार्यसमाः ।।४-१-१।।
साधर्म्यवैधाभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ।।५-१-२।।
गौत्वाद्गोसिद्धिवत्तत्सिद्धिः ।।५-१-३।।
साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाञ्चोत्कर्षाऽपकर्षवर्णोऽवर्ण्यविकल्पसाध्यसमाः ।।५-१-४।।
किञ्चित्साधादुपसंहारसिद्धेवैधाऽप्रतिषेधः ।।५-१-५।। साध्याऽतिदेशाच दृष्टान्तोपपत्तेः ।।५-१-६।।
प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याऽविशिष्टत्वादप्राप्त्यासाधकत्वाञ्च प्राप्त्यप्राप्तिसमौ ।।५-१-७।।
घटादिनिष्पत्तिदर्शनात्पीडने चाऽभिचारादप्रतीषेधः ।।५-१-८।। दृष्टान्तस्य कारणाऽनपदेशात्प्रत्यवस्थानाञ्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ।।५-१-९।।
प्रदीपोपादानप्रसङ्गनिवृत्तिवत्तद्विनिवृत्तिः ।।५-१-१०।। (२३४RAAAAAAAAAAA स्याद्वादमञ्जरी