________________
फलं तावदधर्मोऽस्य श्येनाऽऽदेः सम्प्रधार्यते । 'यदि येनेष्टसिद्धिः स्यादनुष्ठानाऽनुबन्धिनी ।।२७०।। तस्य धर्मत्वमुच्येत ततः श्येनाऽऽदिवर्जनम् । यदा तु चोदनागम्यः कार्याऽकार्याऽनपेक्षया ।।२७१।। धर्मः प्रतिनिमित्तं स्यात्तदा श्येनेऽपि धर्मता । यदि त्वप्रीतिहेतुर्यः साक्षाद् व्यवहितोऽपि वा' ।।२७२।। सोऽधर्मश्चोदनार्थः स्यात्तदा श्येनेऽप्यधर्मता । यस्तु हिंसात्वसाधाद्वाह्यवञ्चोदनास्वपि ।।२७३।। वदेदनर्थहेतुत्वं तस्याऽप्यागमबाधनम् । तमनादृत्य यो ब्रूयाद्यागादेरप्यसौ वदेत् ।।२७४ ।। स्वर्गाऽऽदिसाधनाशक्तिं क्रियात्वाद्भोजनादिवत् । गीतामन्त्रार्थवादेर्या कल्प्यतेऽनर्थहेतुता ।।२७५ ।। प्रत्यक्षश्रुतिबाध्यत्वात्साऽन्याऽर्थत्वेन नीयते ।। शिष्यान्प्रत्यविशिष्टत्वात्सूत्रवैदिकवाक्ययोः ।।२७६।।
तत्रैव स्याद्वादमञ्चर्यां स हि पौरुषेयो वा स्यादपौरुषेयो वा इत्यादि विकल्प्य खण्डितं तदर्थं मीमांसकंमतम् (जैमिनिसूत्राणि २७-३२ शाबरभाष्यसहितानि).
वेदांश्चैके सत्रिकर्षं पुरुषाऽऽख्या ।।१-१-२७॥ .
उक्तं चोदनालक्षणाऽर्थो धर्म इति । यतो न पुरुषकृतः शब्दस्याऽर्थेन सम्बन्धः । तत्र पदवाक्याश्रय आक्षेपः परिहतः । इदानीं अन्यथाऽऽक्षेप्स्यामः । पौरुषेयाश्चोदना इति वदामः । सन्निकृष्टकालाः कृतका वेदा इदानीन्तनाः । ते च चोदनानां समूहाः । तत्र पौरुषेयाश्चेद्वेदा असंशयं पौरुषेयाश्चोदनाः कथं पुनः, कृतका वेदा इति केंचिन्मन्यन्ते । यतः, पुरुषाऽऽख्याः । पुरुषेण हि समाख्यायन्ते वेदाः काठकं, कलापकं, पैप्पलादकं, मौहुलमिति । न हि सम्बन्धादृते समाख्यानम् । स्याद्वादमञ्जरी MAAAAAAAAAnnasal२४३)