________________
अभिन्नत्वेऽपि दृश्यन्ते भुजः स्वस्थातुरेष्वपि । रूपाऽभेदेपि हिंसादेर्भेदोऽङ्गाऽनङ्गकारितः ।। २५८ ।।
तथाप्येकफलत्वं चेत् क्रियात्वात्सर्वसंकरः । यजित्वाद्यविशेषाञ्च चित्रादिफलतुल्यता ।। २५९ ।।
भेदात्तत्र व्यवस्था चेदिहाऽप्येवं भविष्यति । विधीनां वाऽपि सर्वेषां साक्षाद् व्यवहितोऽपि वा । ।२६०।।
पुरुषार्थः फलं तेन नानर्थोऽतः प्रतीयते । न चैषु श्रूयतेऽनर्थो निषेधान्न च कल्प्यते । । २६१ ।।
न च प्रकरणस्थत्त्वात्पुरुषार्थः फलं भवेत् । कर्मोपकारः कल्प्यस्तु दृष्टोऽदृष्टोऽथ वा पुनः
।।२६२ ।।
कल्पनाऽवसरस्तत्र नाऽनर्थस्यानपेक्षणात् । क्रत्वर्थश्चाऽपि संस्कारः पशोर्नारादुपक्रिया । । २६३ ।। दृष्टैव त्ववदानानां निष्पत्तिः क्रत्वपेक्षिता । अभिचारेऽप्युपायस्था हिंसा नाऽधर्म उच्यते । । २६४ ।।
तस्मादनङ्गभूतायां हिंसायामेतदुच्यते ।
उद्देशाच्च फलत्वेन श्येनाऽऽदौ न विधीयते । । २६५ ।।
भावनाविधिरप्येवं फलांशाद्विनिवर्तते ।
अतः स्वतो न धर्मत्वं श्येनाऽऽदेर्नाऽप्यधर्मता ।। २६६।।
फलाऽनर्थानुबन्धित्वात्तद्द्वारेणोपचर्यते ।
निराकाङ्क्षस्य चैकेन श्येनस्य न फलद्वयम् ।।२६७।।
तस्मात् क्रियाऽन्तरादेर्वा हिंसातो नाऽर्थ उच्यते । फलतोऽपि च यत्कर्म नाऽनर्थेनाऽनुबध्यते । । २६८ ॥
केवलप्रीतीहेतुत्वात्तद्धर्मत्वेन हीष्यते ।
ननु चेष्टाऽभ्युपायत्वात् श्येनाऽऽदेर्धर्मता भवेत् ।। २६९ ।।
२४२४
स्याद्वादमञ्जरी