________________
हदयक्रोशनं कस्मादृष्टां पीडामपश्यतः । . पीडतश्चाप्यधर्मत्वं तथा पीडामधर्मतः ।।२४६।। अन्योऽन्याऽऽश्रयमाप्नोति विना शास्त्रेण साधयन् । ' एवमादावशास्त्रज्ञो म्लेच्छो नोद्विजते क्वचित् ।।२४७।। तस्य नाऽधर्मयोगः स्यात्पूर्वोक्ता यदि कल्पना । तस्मादनुग्रहं पीडां तदभावमपास्य च ।।२४८ ।। धर्माऽधर्मार्थिभिनित्यं मृग्यौ विधिनिषेधको। . क्वचिदस्या निषिद्धत्वाच्छक्तिः शास्त्रेण बोधिता ।।२४९ ।। प्रत्यवायनिमित्तत्वे विधिना नाऽपगच्छति । . . . . . . शास्त्रेण न हि शक्तीनामावापोद्वापनक्रियाः ।।२५०।। विद्यमाना हि कथ्यन्ते शक्तयो द्रव्यकर्मणाम् । तदेव चेदं कर्मेति शास्त्रमेवाऽनुधावता ।।२५१।। हिंसादीनामधर्मत्वं कथ्यते नाऽनुमानतः' । .. ‘एवं ये निपुणं प्राहुस्तैरप्येतत्परीक्ष्यताम् ।।२५२।। सुरापानाऽऽदिभिः शुद्रः किं याति नरकं कृतैः । वैश्यस्तोमेन वा किं स्याद्विप्रराजन्ययोः फलम् ।।२५३।। पञ्चम्यामिष्टिकरणान्मध्याह्ने चाऽग्निहोत्रतः' । तस्माद्यद्यादृशं कर्म यत्फलोत्पत्तिशक्तिकम् ।।२५४।। . शास्त्रेण गम्यते तस्य तादृशस्यैव तत् फलम् । 'हिंसा चांशद्वयादन्या या तस्याः प्रतिषेधजम् ।।२५५ ।। प्रत्यवायार्थताज्ञानं विधिनाऽन्यत्र वार्यते । ज्ञानमेव च शक्तीनां नावापोद्वापनक्रियाः ।।२५६।। ज्ञायन्ते शास्त्रतस्तास्तु क्रियाभेदव्यवस्थिताः ।
व्यवस्थाः शक्तिभेदानां दृष्टार्थेष्वपि कर्मसु ।।२५७।। स्याद्वादमञ्जरीkakkha
२४१)