________________
बाह्येऽपि विचिकित्सा तु शास्त्रादेवोपजायते । 'हिंसमानस्य दुःखित्वं दृश्यते यन तावता ।।२३४।। कर्तृर्दुःखानुऽमानं स्या'त्तदानीं तद्विपर्ययः । विषयोऽस्याः फलं यादृक् प्रेत्य कर्तुस्तथाविधम् ।।२३५।। हिंसा क्रियाविशेषत्वात्सूते शास्त्रोक्तदानवत् । य एवमाह तस्याऽपि गुरुस्त्रीगमनाऽऽदिभिः ।।२३६ ।। सुरापानादिभिश्चापि विपक्षैर्व्यभिचारिता । विरुद्धता च यादृग्धि दानैस्तादृक् फलं भवेत् ।।२३७ ।। विधिगम्यफलाऽवाप्तिरदुःखात्मकता तथा । न च या सम्प्रदानस्य प्रीतिस्तादृक् फलं श्रुतम् ।।२३८ ।। . दातुस्तेन हि दृष्टान्तः सांध्यहीनः प्रतीयते । । 'सम्प्रदानं च दाने ते विषयः कर्म हिंसने ।।२३९ ।। वैषम्यं' सम्प्रदाने त पक्षस्त्वेतद्विरुद्धता । प्रीयते सम्प्रदानं हि देवतेति मतं तव ।।२४०।। ... दृष्टान्ते कर्म दानं चेत्तस्य कीदृक् फलं भवेत् । जपहोमाऽऽदिदृष्टान्तात्परपीडाऽऽदिवर्जनात् ।।२४१।। चोदितत्वस्य हेतुत्वाद्विरुद्धाव्यभिचारिता । विहितंप्रतिषद्धत्वे मुक्त्वान्यन्न च कारणम् ।।२४२।। धर्माऽधर्मावबोधस्य तेनायुक्तानुमानगीः । अनुग्रहाचाधर्मत्वं पीडातश्चाप्यधर्मता ।।२४३।। वदतो जपसीध्वादिपानादौ नोभयं भवेत् । कोशता हृदयेनाऽपि गुरुदाराऽभिगामिनाम् ।।२४४।। भूयान् धर्म:प्रसज्येत भूयसी ह्युपकारिता ।
अनुमानप्रधानस्य प्रतिषेधाऽनपेक्षिणः ।।२४५।। (२४०
स्याद्वादमञ्जरी