________________
अतिक्रमेण हिंसाऽऽदिं' शास्त्राऽन्तरनिरीक्षया । । फलांऽशे भावनायाश्च प्रत्ययो न विधायकः ।।२२२।। वक्ष्यते जैमिनिश्चाऽऽह तस्य लिप्साऽर्थलक्षणा । तेन सामान्यतः प्राप्तो विधिना च निवारितः ।।२२३।। फलांशोपनिपातिन्या हिंसायाः प्रतिषेधकः । . अनर्थप्राप्तिहेतुत्वं बोध्यते तत्र यद्यपि ।।२२४ ।। श्येनस्वरूपं नाऽनर्थस्तत्फलस्य त्वनर्थता । .... परस्तूभयमित्यादेः फलस्याऽपि विधेयताम् ।।२२५ ।। भावनाऽन्तर्गतत्वाद्वा मत्वाऽनर्थत्वमाक्षिपत् । नैवेत्येतावता चाऽस्य विधेयत्वनिराक्रिया ।।२२६।। .. किं विधेयमिदानी स्यादाह श्येनाऽऽदयस्त्विति । 'प्रश्नाऽपाकरणे चात्र तव्यो विधिविवक्षया ।।२२७ ।। प्रयुक्तो न तु साध्येऽर्थे द्वयेऽप्यनुप्रयोगतः । अनर्थस्याऽपि साध्यत्वमविधेयस्य हीष्यते ।।२२८ ।। साध्यत्वरहिते चेष्टा विधेये नित्यमर्थता । शतुश्च लक्षणाऽर्थत्वं तेषां चाऽप्युपदेशनम् ।।२२९ ।। ब्रुवन् स्फुटीकरोतीष्टमुपदेशो हि नाऽन्यथा । विधित्वमादिशब्दात्स्यादितिकर्तव्यतास्वपि ।।२३०।। तस्मात्फलांऽशे या हिंसा वैदिकी सा निषिध्यते । अंशद्वये तु या नाम तनिषेधाऽभिधायिनाम् ।।२३१।। अविशेषेण यच्छात्रं शिरोवदिति चोत्तरम् । . निषेधेनाऽनवष्टब्धे विषये न ह्यनर्थता ।।२३२।। प्रत्यक्षादेरशक्यत्वात्कल्प्यते निष्प्रमाणिका ।
न हि हिंसाधनुष्ठाने तदानीं दोषदर्शनम् ।।२३३।। स्थाद्वादमञ्जरीAA
M ANA २३९