________________
न च पुरुषस्य शब्देन अस्ति सम्बन्धोऽन्यतः कर्ता पुरुषः कार्यः शब्द इति । ननु प्रवचनलक्षणा समाख्या स्यात् । नेति ब्रूमः । असाधारणं हि विशेषणं भवति । एक एव हि कर्ता, बहवोऽपि ब्रूयुः । अतोऽस्मर्यमाणोऽपि चोदनायाः कर्ता स्यात् । तस्मान प्रमाणं चोदनालक्षणोऽर्थो धर्म इति ।।२७।।
अनित्यदर्शनाग्छ ।।१-१-२८॥
जननमरणवन्तश्च वेदार्थाः श्रूयन्ते । बवरः प्रावाहणिरकामयत, कुसुरुविन्द औदालकिरकामयतेत्येवमादयः । उद्दालकस्याऽपत्यं, गम्यते औद्दालकिः । यद्येवं, प्राक् औद्दालकिजन्मनो नाऽयं ग्रन्थो भूतपूर्वः । एवमप्यनित्यता ।।२८ ।। पूर्वपक्षः ।।
उक्तं तु शब्दपूर्वत्वम् ।।१-१-२९।।
उक्तं तु शब्दपूर्वत्वम् अस्माभिः शब्दपूर्वत्वमध्येतॄणां केवलं आक्षेपपरिहारो वक्तव्यः, सोऽभिधीयते ।।२९।। सिद्धान्तः ।।
आख्या प्रवचनात् ।।१-१-३०।।
यदुक्तं कर्तृलक्षणा समाख्या काठकाद्येति । तदुच्यते । नेयमर्थाऽपत्तिः । अकर्तृभिरपि ह्येनामाचक्षीरन् । प्रकर्षण वचनमनन्यसाधारणं कठादिभिरनुष्ठितं स्यात् । तथापि हि समांख्यातांरो भवन्ति । स्मर्यते च, वैशम्पायनः सर्वशाखाऽध्यायी, कठ: पुनरिमां केवलांशाखामध्यापयाम्बभूवेति । सबहुशाखाऽध्यायिनां सन्निधावेकशाखाऽध्यायी अन्यां शाखामनधीयानः । तस्यां प्रकृष्टत्वादसाधारणमुपपद्यते विशेषणम् ।।३० ।।
परन्तुं. श्रुतिसामान्यमात्रम् ।।१-१-३१।।
यञ्च, प्रावाहणिरिति । तन्न । प्रवाहणस्य पुरुषस्याऽसिद्धत्वान्न प्रवाहणस्याऽपत्यं, प्रावाहणिः । प्रशब्दः प्रकर्षे सिद्धो वहतिश्च प्रापणे न त्वस्य समुदायः क्वचित्सिद्धः । इकारस्तु यथैवाऽपत्ये सिद्धस्तथा । क्रियायामपि कर्तरि । तस्माद्यः २४४HARA
N A स्याद्वादमञ्जरी