________________
प्रवाहयति , स प्रावाहणिः । बवर इति शब्दाऽनुकृतिः । तेन यो नित्योऽर्थस्तमेवैतौ शब्दौ वदिष्यतः । अत उक्तं, परन्तु श्रुतिसामान्यमात्रमिति ।।३१।। उत्तरम् ।।
कृते वा विनियोगः स्यात् कर्मणः सम्बन्धात् ।।१-१-३२।। .. .... अथ कथमवगम्यते-नाऽयमुन्मत्तबालवाक्यसदृश इति । तथाहि पश्यामःवनस्पतयः सत्रमासत, सर्पाः सत्रमासतेति । यथा, जरद्गवो गायति मत्तकानि । कथं नाम जरद्रवो गायेत । कथं वा वनस्पतयः सर्पा वा सत्रमासीरनिति । उच्यते । विनियुक्तं हि दृश्यते परस्परेण सम्बन्धाऽर्थम् । कथम् । ज्योतिष्टोम इत्यभिधाय, कर्तव्य इत्युच्यते । केनेत्याकाङ्किते,सोमेनेति । किमर्थमिति स्वर्गायेति । कथमिति इत्थमनया इति कर्तव्यतयेति । एवमवगच्छन्तः; पदाथैरेभिः संस्कृतं पिण्डितं वाक्याऽर्थं कथमुन्मत्तबालवाक्यसदृशमित्ति वक्ष्यामः ? ।।
नन्वनुपपन्नमिदं दृश्यते, वनस्पतयः सत्रमासतेत्येवमादि । नाऽनुपपन्नम् । नाऽनेन, अग्निहोत्रं जुहुयात् स्वर्गकाम इत्येवमादयोऽनुपपन्नाः स्युः । अपि च, वनस्पतयः सत्रमासतेत्येवमादयोऽपि नाऽनुपपन्नाः। स्तुतयो ह्येताः सत्रस्य । वनस्पतयो नामाचेतना इदं सत्रमुपासितवन्तः, किं पुनर्विद्वांसो ब्राह्मणास्तद्यथा लोके संध्यायां मृगा अपि न चरन्ति किं पुनर्विद्वांसो ब्राह्यणा इति । अपिच अविगीतः सुहृदुपदेशः सुप्रतिष्ठितः कथमिवाऽऽशङ्कयेत उन्मत्तबालवाक्यसदृश इति । तस्माञ्चोदनालक्षणोऽर्थो धर्म इति सिद्धम् ।।३।।
श्लो. १३ ब्रह्माऽद्वैतमतं खण्डितम् । तदर्थं द्वैतमूलस्याऽध्यासस्य वर्णन श्रीशंङ्कराऽऽचार्यकृतम्। अथाऽतो ब्रह्मजिज्ञासा ।१।११। इति सूत्रे.
'युष्मदस्मत्प्रत्ययगोचरयोविषयविषयिणोस्तम:प्रकाशवविरुद्धस्वभावयोरितरेतरभावानुपपत्तो सिद्धायां तद्धर्माणामपि सुतरामितररेतरभावाऽनुपपत्तिः इत्यतोऽस्मत्प्रत्ययगोचरे विषयिणि चिदात्मके युष्मत्प्रत्ययगोचरस्य विषयस्य तद्धर्माणां चाऽध्यासः, तद्विपर्ययेण विषयिणस्तद्धर्माणाञ्च विषयेऽध्यासो मिथ्येति भवितुं .युक्तम् । स्याद्वादमञ्जरी AMARN
MAA२४५)