________________
तथाप्यन्योऽन्यस्मिन्नन्योऽन्याऽऽत्मकतामन्योन्यधर्मांश्चाऽध्यस्येतरेतरविवेकेनाऽत्यन्तविविक्तयोर्धर्मधर्मिणोमिथ्याज्ञाननिमित्तः सत्याऽनृते मिथुनीकृत्य 'अहमिदं' 'ममेदमिति' नैसर्गिकोऽयं लोकव्यवहारः । आह-कोऽयमध्यासो नामेति । उच्यतेस्मृतिरूप: परत्र पूर्वदृष्टाऽवभासः । तं केचित्-अन्यत्राऽन्यधर्माऽध्यासइति वदन्ति । केचन यत्र यदध्यासस्तद्विवेकाग्रहनिबन्धनो भ्रम-इति ।। अन्ये तु यत्र यदध्यासस्तत्रैव विपरीतधर्मत्वकल्पनामाचक्षते; इति ।। सर्वथाऽपि त्वन्यस्याऽन्यधर्माऽवभासतां न व्यभिचरति । तथा च लोकेऽनुभवःशुक्तिका हि रजतवदवभासते, एकश्चन्द्रः सद्वितीयवदिति । कथं पुनः प्रत्यगात्मन्यविषयेऽध्यासो विषयतद्धर्माणाम् ? सर्वो हि पुरोऽवस्थिते विषये विषयाऽन्तरमध्यस्यति, युष्मत्प्रत्ययाऽपेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि । उच्यते । न तावदयमेकान्तेनाऽविषयः अस्मत्प्रत्ययविषयत्वात्, अपरोक्षत्वाञ्च प्रत्यगात्मप्रसिद्धेः । न चाऽयमस्ति नियमः पुरोऽवस्थित एव विषये विषयाऽन्तरमध्यसितव्यमिति; अप्रत्यक्षेऽपि ह्याकाशे बालास्तलमलिनताद्यध्यस्यन्ति । एवमविरुद्धः प्रत्यगात्मन्यनात्माऽध्यासः । तमेतमेवंलक्षणमध्यासं पण्डिता अविद्येति मन्यन्ते; तद्विवेकेन च वस्तुस्वरूपाऽवधारणं विद्यामाहुः । तत्रैवं सति यत्र यदध्यासस्तत्कृतेन दोषेण गुणेन वाऽणुमात्रेणाऽपि स न सम्बध्यते । तमेतमविद्याख्यमात्माऽनात्मनोरितरेतरांऽध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा लौकिका वैदिकाश्च प्रवृत्ताः सर्वाणि च शास्त्राणि विधिप्रतिषेधमोक्षपराणि । कथं पुनरविद्यावद्विषयानि प्रत्यक्षादीनि प्रमाणानि शास्त्राणि चेति । उच्यते । देहेन्द्रियाऽऽदिष्वहंममाऽभिमानरहितस्य प्रमातृत्वाऽनुपपत्तौ प्रमाणप्रवृत्त्यनुपपत्तेः। नहीन्द्रियाण्यनुपादाय प्रत्यक्षाऽऽदिव्यवहारः सम्भवति । नचाऽधिष्ठानमन्तरेणेन्द्रियाणां व्यवहारः सम्भवति । नचाऽनध्यस्ताऽऽत्मभावेन देहेन कश्चिद्व्याप्रियते । नचैतस्मिन्सर्वस्मिन्नसति असङ्गस्याऽऽत्मनः प्रमातृत्वमुपपद्यते । न च प्रमातृत्वमन्तरेण प्रमाणप्रवृत्तिरस्ति । । तस्मादविद्यावद्विषयाण्येव प्रत्यक्षादीनि प्रमाणानि शास्त्राणि च । पश्वादिभिश्चाऽविशेषात् ।। यथा हि पश्वादयः शब्दादिभिः श्रोत्रादिनां सम्बन्धे सति, शब्दाऽऽदिविज्ञाने प्रतिकूले जाते ततो निवर्तन्ते अनुकूले च प्रवर्तन्ते यथा दण्डोद्यतकरं पुरुषमभिमुखमुपलभ्य मां हन्तुमयमिच्छतीति पलायितुमारभन्ते, (२४६ANTRAdhikakkar स्याद्वादमञ्जरी)