________________
हरिततृणपूर्णपाणिमुपलभ्य तं प्रत्यभिमुखीभवन्तिः एवं पुरुषा अपि व्युत्पन्नचित्ताः क्रूरदृष्टीनाक्रोशतः खड्गोद्यतकारान्बलवद् उपलभ्य ततो निवर्तन्ते, तद्विपरीतान्प्रति प्रवर्तन्ते, अतः समानः पश्वादिभिः पुरुषाणां प्रमाणप्रमेयव्यवहारः । पश्वादीनां च प्रसिद्धोऽविवेकपुरस्सरः प्रत्यक्षाऽऽदिव्यवहारः तत्सामान्यदर्शनादव्युत्पत्तिमतामपि पुरुषाणां प्रत्यक्षा- ऽऽदिव्यवहारस्तत्कालः समान इति निश्चीयते । शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाऽविदित्वाऽऽत्मनः परलोकसम्बन्धमधिक्रियते; तथापि न वेदान्तवेद्यमशनाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वमधिकारेऽपेक्ष्यते; अनुपयोगादधिकारविरोधाच । प्राक्च तथाभूताऽऽत्मविज्ञानात्प्रवर्तमानं शास्त्रमविद्यावद्विषयत्वं नाऽतिवर्तते । तथाहि - 'ब्राह्मणो यजेत' इत्यादीनि शास्त्राण्यात्मनि वर्णाऽऽश्रमवयोऽवस्थादिविशेषाऽध्यासमाश्रित्य प्रवर्तन्ते । अध्यासो नाम अतस्मिंस्तद्बुद्धिरित्यवोचाम । तद्यथा पुत्रभार्यादिषु विकलेषु सकलेषु वा अहमेव विकलः सकलो वेति बाह्यधर्मानात्मन्यध्यस्यति । तथा देहधर्मान् स्थूलोऽहं, कृशोऽहं गौरोऽहं तिष्ठामि गच्छामि, लङ्घयामि चेति । तथेन्द्रियधर्मान् मूकः, काण:, क्लीब, बधिर, अन्धोऽहमिति । तथाऽन्तःकरणधर्मान् कामसङ्कल्पविचिकित्साऽध्यवसायादीन् । एवमहं प्रत्ययिनमशेषस्वप्रचारसाक्षिणि प्रत्यगात्मन्यध्यस्य तं चं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणन्तःकरणादिष्वध्यस्यति । एवमयमनादिरनन्तो नैसर्गिकोऽध्यासो मिथ्याप्रत्ययरूपः कर्तृत्वभोक्तृत्वप्रवर्तकः सर्वलोकप्रत्यक्षः । अस्याऽनर्थहेतोः प्रहाणाय आत्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते ।।'
"
1
श्लो. १४ स्याद्वादमञ्जर्यां मीमांसकैर्जातिरङ्गीक्रियते तद्वदेव सांख्यैरद्वैतिभिश्चेत्यर्थकमुक्तं तदर्थं मीमांसा श्लोकवार्तिके १-१-५ आकृतिवादः ।
अथाऽऽकृतिवादः ।
आकृतिव्यतिरिक्तेऽर्थे सम्बन्धो नित्यताऽस्य च ।
न सिध्येतामिति ज्ञात्वा तद्वाच्यत्वमिहोच्यते ॥ | १ ||
-
तत्सद्भावप्रसिद्ध्यर्थमत्र तावत्प्रयत्यते । वाच्यत्वे वक्ष्यते युक्तिर्व्यक्त्या सह बलाऽबले ॥२॥
IXITATEA ££££ & & & & &£ £ £ £ £27