________________
जातिमेवाऽऽकृति प्राहुर्व्यक्तिराक्रियते यया । सामान्यं तच पिण्डानामेकबुद्धिनिबन्धनम् ।।३।। तन्निमित्तं च यत्किञ्चित्सामान्यं शब्दगोचरम् । सर्व एवेच्छतीत्येवमविरोधोऽत्र वादिनाम् ।।४।। सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमाऽऽत्मिका । जायते ह्यात्मकत्वेन विना सा च न सिद्ध्यति ।।५।। विशेषमात्र इष्टे च न सामान्यमतिर्भवेत् । सामान्यमात्रबोधे तु निर्निमित्ता विशेषधीः ।।६।। न चाऽप्यन्यतरा भ्रान्तिरुपचारेण चेष्यते ।। दृढत्वात्सर्वदा बुद्धेर्धान्तिस्तद्भ्रान्तिवादिनाम् ।।७।। मुख्ययोश्चाप्यदृष्टत्वान्नोपचारेण कल्पना । बाह्याऽर्थविषयत्वं च बुद्धीनां प्रतिपादितम् ।।८।। अन्योऽन्यापेक्षिता नित्यं स्यात्सामान्यविशेषयोः । विशेषाणां च सामान्यं ते च तस्य भवन्ति हि ।।९।। निर्विशेषं न सामान्यं भवेच्छशविषाणवत्। सामान्यरहितत्वाञ्च विशेषास्तद्वदेव हि ।।१०।। तदनात्मकरूपेण हेतूं वाच्याविमौ पुनः । तेन नाऽत्यन्तभेदोऽपि स्यात्सामान्यविशेषयोः ।।११।। सामान्यबुद्धिशक्तत्वं विशेषेष्वेव यो वदेत् । विना वस्त्वन्तरात्तेन वाच्यशक्तिस्तु कीदृशी ।।१२।। ग्राह्या किं वाऽप्यसंबोधा भिन्नैका वा तथैव च । . गृह्यते यदि सैका चे जातिरेवाऽन्यशब्दिका ।।१३।। भवेनिर्विषया बुद्धिर्यदि शक्तिर्न गृह्यते । .
न हि सद्भावमात्रेण विषयः कश्चिदिष्यते ।।१४।। (२४MANNARAAAAAAAAA स्याद्वादमञ्जरी)