________________
परस्परविभिन्नत्वाद्विशेषा नैकबुद्धिभिः । गृह्यन्ते विषयाऽसत्त्वाच्छक्तिश्चैषां न विद्यते ।।१५।। भिन्नत्वे वाऽपि शक्तीनामेकबुद्धिर्न लभ्यते । विशेषशक्त्यभेदे च तावन्मात्रमतिर्भवेत् ।।१६।। भिन्ना विशेषशक्तिभ्यः सर्वत्राऽनुगताऽपि च । ... प्रत्येकं समवेता च तस्माज्जातिरपीष्यताम् ।।१७।। . तेनाऽऽत्मधर्मो भेदानामेकधीविषयोऽस्ति नः । सामान्यमाकृतिर्जातिः शक्तिर्वा सोऽभिधीयताम् ।।१८।। ननु भिन्नेऽपि सत्तादौ सामान्यमिति जायते । . बुद्धिविनाऽपि सामान्यादन्यस्मात्सा कथं भवेत् ।।१९।। वनोपन्यासतुल्योऽयमुपन्यासः कृतस्त्वया । भ्रान्तित्वेन हि नैतस्या भ्रान्ति!त्वाऽऽदिधीरपि ।।२०।। ... शब्दात्पूर्वं हि सर्वेषु गवादाविव नैकधीः । वस्तुत्वं चाऽत्र सामान्यं धर्म केचित्प्रचक्षते ।।२१।। एवं तु कल्प्यमाने स्यात्सामान्यानामनन्तता । पुनस्तेन सहाऽन्येषु सामान्यमतिरस्ति हि ।।२२।। विशेषेष्वपि वस्तुत्वात्सामान्यमिति धीर्भवेत् । सत्तादिष्विव तेनैतत्सामान्यं नोपपद्यते ।।२३।। .. तस्मादेकस्य भिन्नेषु या वृत्तिस्तनिबन्धनः । . सामान्यशब्दः सत्तादावेकधीकरणेन वा ।।२४।। . पिण्डेष्वेव च सामान्यं नाऽन्तरा गृह्यते यतः । न ह्याकाशवदिच्छन्ति सामान्यं नाम किंचन ।।२५।। यद्वा सर्वगतत्वेऽपि व्यक्तिः शक्तयनुरोधतः ।
शक्तिः कार्यानुमेया हि व्यक्तिदर्शनहेतुका ।।२६।। स्याद्वादमञ्जरी hindiARANAMANA२४९