________________
तेन यत्रैव दृश्येत व्यक्तिः शक्तं तदेव तु । तेनैव च न सर्वासु व्यक्तिष्वेतत्प्रतीयते ।।२७।। भिन्नत्वेऽपि हि कासांचिच्छक्तिः काश्चिदशक्तिकाः । न च पर्यनुयोगोऽस्ति वस्तुशक्तेः कदाचन ।।२८।। वह्निर्दहति नाऽऽकाशं कोऽत्र पर्यनुयुज्यताम् । न चाऽन्या मृग्यत युक्तिर्यथा संदृश्यते तथा ।।२९।। न हि युक्तयन्तरं नास्तीत्येतज्ज्ञानमनर्थकम् । धर्मश्चाऽव्यभिचार्यस्य न मृग्य उपलक्षणे ।।३०।। । नाऽनुमानाऽवगम्यं तत्, प्रत्यक्ष लक्षणेन किम् । स्वाभाविकश्च सम्बन्धो जातिव्यक्तयोर्न हेतुमान् ।।३१।। तेनैतस्य प्रसिद्ध्यर्थं नाऽन्यत्सामान्यमिष्यते । शक्तिसिद्धिवदेतस्य स्वभावोऽत्र न वार्यते ।।३२।। .. यद्वा नैमित्तिकत्वेऽपि तावन्मात्रप्रतीक्षणात् । विशेषेष्वेव लब्धेषु केषुचिन्नाऽन्यवाञ्चनम् ।।३३।। न व्यञ्जन्त्यपरे कस्माद्यतस्तेषु न दृश्यते । तेभ्योऽपि न निवृत्त्यर्थं मृग्यो हेतुः स्वभावतः ।।३४।। ' सामान्यं नान्यदिष्टं चेत्तस्य वृत्तेर्नियामकम् । गोत्वेनाऽपि विना कस्माद्गोबुद्धिर्न नियम्यते ।।३५।। यथा तुल्येऽपि भिन्नत्वे केषुचिद्वृत्त्यपेक्षिता । गोत्वाऽदेरनिमित्तेऽपि तथा बुद्धिर्भविष्यति ।।३६।। विषयेण हि बुद्धीनां विना नोत्पत्तिरिष्यते । विशेषादन्यदिच्छन्ति सामान्यं तेन तद् ध्रुवम् ।।३७ ।।
(२५०NARRARAMANA स्याद्वादमञ्जरी