________________
ता हि तेन विनोत्पन्ना मिथ्याः स्युर्विषयादृते । न त्वन्येन विना वृत्तिः सामान्यस्येह दुष्यति ।।३८।।। अनिष्यमाणे सामान्ये वृत्तिः शब्दाऽनुमानयोः । नैव स्यान्न हि सम्बन्धो भेदैरानन्त्यतो भवेत् ।।३९।। अनुभूततया चाऽसौ पुरुषस्योपज्यते । जातिव्यक्त्योस्तु सम्बन्धे नाऽनुभूत्या प्रयोजनम् ।।४०।। 'सिद्धे विषयरूपे च गोत्वादाविन्द्रियैः पुनः । । अर्थाऽऽपत्त्युपलब्धा स्याच्छक्तिरेका नियामिका ।।४।। न चाऽऽत्महेतुमेवाऽसौ सिद्धं बाधितुमर्हति' । . शक्तिश्च नैतया बुद्ध्या नेन्द्रियैः सा हि गृह्यते ।।४।। सामान्याऽन्तरयोगानामनिष्टा या च वर्ण्यते । तया सामान्यनाशः स्यात्स च दृष्टेन बाध्यते ।।४३।। सम्बन्धस्तस्य हेतुर्वा तद्ग्रहे न च कारणम् । " स्वरूपतो गृहीतेऽर्थे पश्चादेतद्विकल्प्यते ।।४४।। सास्नाऽऽद्येकार्थसम्बन्धि गोत्वमित्युपलक्षणम् । न च स्वसमवाय्येव केवलं चिह्नमिष्यते ।।४५।। सास्नाऽऽदिभ्यस्तु पिण्डस्य भेदो नाऽत्यन्ततो यदा । सामान्यस्य च पिण्डेभ्यस्तदा स्यादेतदुत्तरम् ।।४६।। कस्मात् सास्नाऽऽदिमत्स्वेव गोत्वं यस्मात्तदात्मकम् । तादात्म्यमस्य कस्माञ्चेत् स्वभावादिति गम्यताम् ।।४७।। उपलब्ध्यनुसारेण व्यवस्थासिद्धिरीदृशी । ... स्वतो गोत्वाऽऽदिभेदस्तु न तु व्यञ्जकभेदतः ।।४८।। मा भूद् द्रुताऽऽदिवन्मिथ्या व्यञ्जकस्य तु किंकृतः ।
भेदो हस्त्यादिपिण्डेभ्यः स्वतश्चेदिह तत्समम् ।।४९।। . स्याद्वादमञ्जरी
२५१)