________________
व्यङ्ग्यजातिविशेषाञ्चेत् प्राप्तमन्योऽन्यसंश्रयम् । तस्मात् स्वाभाविको भेदो जातिव्यक्तयोः प्रतीयते ।।५० ।। अनेकाऽनन्यवृत्तित्त्वान्न सामान्यविशेषयोः । एकवस्त्वात्मता युक्ता किं चित्तेनौपचारिकम् ।।५१।। भिन्नेभ्यश्चाऽप्यभिन्नत्वाद्भेदस्तत्स्वात्मवद्भवेत् । एकस्माद्वाऽप्यभिन्नत्वाद्व्यक्तयेकत्वं प्रतीयते ।।५२ ।। एकाऽनेकत्वमेकस्य तथाऽन्याऽनन्यता कथम् । तत्सामान्यं विशेषश्चेत्येवमादि च दुष्करम् ।।५३।। । विरोधस्तावदेकान्ताद्वक्तुमत्र न युज्यते । सामान्याऽनन्यविज्ञाते विशेषे नैकवृत्तिता ।।५४ ।। सामान्याऽनन्यवृत्तित्वं विशेषाऽऽत्मैकभावतः । एवञ्च परिहर्तव्या भिन्नाऽभिन्नत्वकल्पनाः ।।५५।। . केनचिद्ध्यात्मनैकत्वं नानात्वं चाऽस्य केनचित् । सामान्यस्य तु यो भेदं ब्रूते तस्य विशेषतः ।।५६।। दर्शयित्वाऽभ्युपेतव्यं विशेषैक्यं च जातितः । यथा कल्माषवर्णस्य यथेष्टं वर्णनिग्रहः ।।५७ ।। चित्रत्वाद्वस्तुनोऽप्येवं भेदाऽभेदाऽवधारणम् ।। सामान्यांऽशे तु निष्कृष्य भेदो येन प्रसाध्यते ।।५८ ।। तस्य हेतोरसिद्धत्वं सिद्धश्चेत् सिद्धसाधनम् । भेदेभ्योऽनन्यरूपेण सामान्यं गृह्यते यदा ।।५९।। तदा विशेषमात्रेण वस्तु प्रत्यवभासते । तदुद्भूत्या च सामान्यं तद्भावाऽनुगुणं स्थितम् ।।६० ।।
(२५२itinuirinkuntinuintuk स्याद्वादमञ्जरी