________________
सदप्यग्राह्यरूपत्वादसद्वत् प्रतिभाति नः । विशेषानपि सामान्याद्यदा भेदेन बुद्ध्यते । । ६१ ।।
तदा सामान्यमात्रत्वमेवमेव प्रतीयते । यदा तु शबलं वस्तु युगपत् प्रतिपद्यते ।। ६२ ।।
तदाऽन्याऽनन्यभेदादि सर्वमेव प्रलीयते । नच तत्तादृशं कश्चिच्छब्दः शक्नोति भाषितुम् ||६३ ।।
सामान्यांशानपोद्धृत्य पदं सर्व प्रवर्त्तते । समस्तवस्त्वपेक्षां च पदार्थानामपोद्धृतिम् ।। ६४ ।।
केचिदाहुरसद्रूपमंशत्वं तु न वार्यते ।
सारूप्यमेव सामान्यं पिण्डानां येन कल्प्यते ।।६५ ।।
तेन सारुप्यशब्देन किं पुनः प्रतिपद्यते । समानरूपभावश्चेज्जातिः साऽस्माभिरिष्यते । । ६६ ।।
•
सादृश्यमथ सारूप्यं कस्य केनेति कथ्यताम् । न तावच्छाबलेयेन बाहुलेयाऽऽदयः समाः । । ६७।। विशेषरूपतो, येऽपि तत्संस्थानादिभिः समाः । शाबलेय इवेति स्यात्तत्र बुद्धिर्न गौरिव ।। ६८ ।। शाबलेयोऽयमिति वा भ्रान्त्या गौरिति नास्ति धीः । शाबलेयस्वरूपं च न गौरित्यवतिष्ठते । ६९ ।।
तदन्येषु हि गोबुद्धिर्न स्यात् सुसदृशेष्वपि । दृश्यते सा न चाऽन्यत्र गोरूपं तत्र विद्यते ।। ७० ।।
न चाऽन्यो गौः प्रसिद्धोऽस्ति यत्सादृश्येन धीर्भवेत् । न चाऽपि स इति ज्ञानं सदृशेष्वस्ति सर्वदा ।। ७१ ।।
(स्याद्वादमञ्जरी में
ॐ ॐ ॐ ॐ ४ २५३