________________
सर्वपुंसामतो . भ्रान्तिनॆषा बाधकवर्जनात् । सर्वज्ञानानि मिथ्या च प्रसज्यन्तेऽत्र कल्पने ।।७२।। विशेषग्रहणाऽभावादेव गौः कश्च कथ्यताम् । बभूव यद्यसौ पूर्वमस्मदादेस्तदग्रहात् ।।७३ ।। सादृश्यावधृतिर्नास्तीत्यतो गोधीन लभ्यते । न चाऽवयवसामान्यैर्विना सादृश्यकल्पना ।।७४।। सामान्यप्रत्ययोत्पादो न. विशेषेषु जायते । व्यक्तितश्चाऽतिरेकोऽस्य स्यान्न वेति विचारिते ।।७५।। सामान्यमेव सादृश्यं भवेद्वा व्यक्तिमात्रकम् । तेन नाऽत्यन्तभिन्नोऽर्थः सारूप्यमिति वर्णितम् ।।७६।।
..ग्रन्थे विन्ध्यनिवासैन भ्रान्ते सादृश्यमुच्यते ।। श्लो. १५ स्याद्वादमञ्जर्यां च सांख्यमतस्य खण्डनं तदर्थं स्वयं मञ्जरीकृता .. 'ईश्वरकृष्णकारिका' निर्दिष्टास्तेन पुनस्तत्कारिका न निर्दिश्यन्ते । , ___ श्लो. १६ प्रमाणतत्फलांभेदरूपोऽभ्युपगमो बौद्धानां खण्ड्यते तदर्थं न्यायबिन्दुसूनं धर्मकीर्तिप्रणीतं निर्दिश्यते ।
'विषयप्रतिपत्तिं निराकृत्य फलविप्रतिपत्तिं निराकर्तुमाह- .
तदेव च प्रत्यक्षं ज्ञानं प्रमाणफलमर्थप्रतीतिरूपत्वात् ।।१-१८॥ - यदेवाऽनन्तरमुक्तं प्रत्यक्षं तदेव प्रमाणस्य फलम् । कथं प्रमाणफलमित्याह । अर्थस्य प्रेतीतिरवगमः । सैव रूपं तस्य प्रत्यक्षज्ञानस्य तदर्थप्रतीतिरूपम् । तस्य भावः। तस्मादेतदुक्तं भवति । प्रापकं ज्ञानं प्रमाणम् । प्रापणशक्तिश्च न केवलादाविनाभावित्वाद्भवति। बीजाद्यविनाभाविनोऽप्यंकुरादेरप्रापकत्वात् । तस्मादर्थादुत्पत्तावप्यस्य ज्ञानस्याऽस्ति कश्चिदवश्यकर्तव्यः प्रापकव्यापारः । येन
(२५४R
ussia स्याद्वादमञ्जरी) .