________________
कृतेनाऽर्थः प्रापितो भवति । स एव च प्रमाणफलम् । यदनुष्ठानात्प्रापकं भवति ज्ञानम् । उक्तं च पुरस्तात्प्रवृत्तिविषयकदर्शनमेव प्रापकस्य प्रापकव्यापारो नाम । तदेव च प्रत्यक्षमर्थप्रतीतिरूपमर्थदर्शनरूपम् । अतस्तदेव प्रमाणफलम् । । १८ । ।
यदि तर्हि ज्ञानं प्रमितिरूपत्वात्प्रमाणफलं किं तर्हि प्रमाणमित्याह
अर्थसारूप्यमस्य प्रमाणम् ।।१-१९।।
अर्थेन सह यत्सारूप्यं साद्दश्यमस्य ज्ञानस्य तत्प्रमाणमिह । यस्माद्विषयाज्ज्ञानमुदेति तद्विषयसदृशं तद्भवति । यथा नीलादुत्पद्यमानं नीलसदृशम् । तच्च सारूप्यं सादृश्यमाकार इत्याभास इत्यपि व्यपदिश्यते । । १९ ।।
ननु च ज्ञानादव्यतिरिक्तं सादृश्यम् । तथा च सति तदेव ज्ञानं प्रमाणम् । तदेव प्रमाणफलम् । न चैकं वस्तु साध्यं साधनं चोपपद्यते तत्कथं सारुप्यप्रमाणमित्याहतद्वशादर्थप्रतीतिसिद्धेरिति । । १ - २० । ।
1
तदिति सारूप्यं तस्य वशात्सारूप्यसामर्थ्यात् । अर्थस्य प्रतीतिस्तस्या बोधः सिद्धिः । तत्सिद्धेः कारणात् । अर्थस्य प्रतीतिरूपं प्रत्यक्षं विज्ञानं सारूप्यवशात्सिध्यति प्रतीतं भवतीत्यर्थः । नीलनिर्भासे हि विज्ञानं यतस्तस्मान्नीलस्य प्रतीतिरवसीयते । येभ्यो हि चक्षुरादिभ्यो विज्ञानमुत्पद्यते न तद्वशात्तज्ज्ञानं नीलस्य संवेदनं शक्यतेऽवस्थापयितुम्। नीलसदृशं त्वनुभूयमानं नीलस्य संवेदनमवस्थाप्यते । न चाऽत्र जन्यजनकभावनिबन्धनः साध्यसाधनभावः, येनैकस्मिन्वस्तुनि विरोधः स्यात् । अपि तु व्यवस्थाप्यव्यवस्थापकभावेन । तत् एकस्य वस्तुनः किंचिद्रूपं प्रमाणं किंचित्प्रमाणफलं न विरुद्ध्यते । व्यवस्थापनहेतुर्हि सारुंप्यम् । तस्य ज्ञानस्य व्यवस्थाप्यं च नीलसंवेदनरूपम् । व्यवस्थाप्यव्यवस्थापकभावोऽपि कथमेकस्य ज्ञानस्येति चेदुच्यते । सदृशमनुभूयमानं तद्विज्ञानम् । यतो नीलस्य ग्राहकमवस्थाप्यते निश्चयप्रत्ययेन । तस्मात्सारूप्यमनुभूतं व्यवस्थापनहेतुः । निश्चयप्रत्ययेन च तज्ज्ञानं नीलसंवेदनमवस्थाप्यमानं व्यवस्थाप्यम् । तस्मादसारूप्यव्यावृत्त्या सारूप्यं ज्ञानस्य व्यवस्थापनहेतुः । अनीलबोधव्यावृत्त्या च नीलबोधरूपत्वं व्यवस्थाप्यम् । व्यवस्थापकश्च विकल्पप्रत्ययः प्रत्यक्षबलोत्पन्नोः द्रष्टव्यः ।
स्याद्वाद्रमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ ॐ २५५