________________
कृतप्रणाशाऽकृतकर्मभोगभव-प्रमोक्ष-स्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छन् अहो ! महासाहसिक: परस्ते ||१८||
कृतप्रणाशदोषम्, अकृतकर्मभोगदोषम्, भवभङ्गदोषम्, प्रमोक्षभङ्गदोषम्, स्मृतिभङ्गदोषमित्येतान् दोषान् । साक्षादित्यनुभवसिद्धान्, उपेक्ष्याऽनादृत्य, साक्षात् कुर्वन्नपि गजनिमीलिकामवलम्बमानः । सर्वभावानां क्षणभङ्गम्उदयाऽनन्तरविनाशरूपां क्षणक्षयिताम्, इच्छन् प्रतिपद्यमानः, ते तव, परः प्रतिपक्षी वैनाशिकः सौगत इत्यर्थः । अहो ! महासाहसिकः-सहसा अविमर्शाऽऽत्मकेन बलेन, वर्तते साहसिकः । भाविनमनर्थमविभाव्य यः प्रवर्तते स एवमुच्यते, महांश्चासौ . साहसिकश्च महासाहसिकोऽत्यन्तमविमृश्य प्रवृत्तिकारी । इति मुकुलिताऽर्थः ।
विवृताऽर्थस्त्वयम्-बौद्धा बुद्धिक्षणपरम्परामात्रमेवाऽऽत्मानमामनन्ति न पुनौक्तिक- कणनिकराऽनुस्यूतैकसूत्रवत्, तदन्वयिनमेकम् । तन्मते, येन ज्ञानक्षणेन सदनुष्ठानमसदनुष्ठानं वा कृतम्, तस्य निरन्वयविनाशान तत्फलोपभोगः, यस्य च फलोपभोगः, तेन तत् कर्म न कृतम् । इति प्राच्यज्ञानक्षणस्य कृतप्रणाशः, स्वकृतकर्मफलाऽनुपंभोगात् । उत्तरज्ञानक्षणस्य चाऽकृतकर्मभागो स्वयमकृतस्य परकृतस्य कर्मणः, फलोपभोगादिति । अत्र च कर्मशब्द उभयत्रापि योज्यः, तेन कृतप्रणाश इत्यस्य कृतकर्मप्रणाश
१. 'बन्ध' इति क. पुस्तके पाठ: । २. 'दोषान्' इति पदं नास्ति क. ख. घ. रा. पुस्तकेषु । ३. गजो नेत्रे निमील्य जलपानादि करोति नेत्रनिमीलनेन न किंचित्करोमीति भावयति च, तद्वदयं
वादी कृतप्रणाशादीन् दोषान् साक्षादनुभवन् सर्वभावानां क्षणभङ्गुरतां प्रतिपद्यते । ४. संक्षिप्तार्थः । ५. 'कृतकर्मणा इत्यर्थः' इति क. पुस्तके पाठः ।
स्याद्वादमञ्जरी
stunnium
१३१)