________________
निराकारं चैतद् द्वंयमपि । न चातिप्रसङ्गः, स्वज्ञानाऽऽवरण वीर्याऽन्तरायक्षयोपशमविशेषवशादेवाऽस्य नैयत्येन प्रवृत्तेः । शेषविकल्पानामस्वीकार एव तिरस्कारः ।
प्रमितिस्तु, प्रमाणस्य फलं स्वसंवेदनसिद्धैव । न ह्यनुभवेऽप्युपदेशाऽपेक्षा । फलं च द्विधा, आनन्तर्यपारम्पर्यभेदात्, । तत्राऽऽनन्तर्येण सर्वप्रमाणानामज्ञाननिवृत्तिः फलम्, पारम्पर्येण केवलज्ञानस्य तावत् फलमौदासीन्यम्, शेषप्रमाणानां तु हानोपादानोपेक्षाबुद्धयः इति सुव्यवस्थितं प्रमात्रादिचतुष्टयम् । ततश्च'नासत्र सन्न सदसन्न चाऽप्यनुभयाऽऽत्मकम् ।
चतुष्कोटिविनिर्मुक्तं तत्त्वमाध्यात्मिका विदुः ॥१॥ इत्युन्मत्तभाषितम् ।
किञ्च, इदं प्रमात्रादीनामवास्तवत्वं शून्यवादिना वस्तुवृत्त्या तावदेष्टव्यम्, तचाऽसौ. प्रमाणाद् अभिमन्यते, अप्रमाणाद्वा । न तावदप्रमाणात् तस्याऽकिञ्चित्करत्वात् । अथ प्रमाणात्, तन्न । अवास्तवत्वग्राहकं प्रमाणं सांवृत्तम्, असांवृत्तं वा स्यात् । यदि 'सांवृत्तम्, कथं तस्मादवास्तवाद् वास्तवस्य शून्यवादस्य सिद्धिः, तथा च वास्तव एव समस्तोऽपि प्रमात्रादिव्यवहारः प्राप्तः । अथ तम्राहकं प्रमाणं स्वयमसांवृत्तम्, तर्हि क्षीणा प्रमात्रादिव्यवहाराऽवास्तवत्वप्रतिज्ञा, तेनैव व्यभिचारात् । तदेवं पक्षद्वयेऽपि 'इतो व्याघ्र इतस्तटी' इति न्यायेन व्यक्त एव परमार्थतः स्वाभिमतसिद्धो विरोधः । इति काव्यार्थः ।।१७।। ___ अधुंनाःक्षणिकवादिन ऐहिकामुष्मिकव्यवहाराऽनुपपन्नाऽर्थसमर्थम विमृश्यकारितं दर्शयन्नाह
१. वीर्यान्तरायः कर्मविशेषः-यस्योदये सति उत्साहप्रतिघातो भवति तद्रूपत्वं वीर्यान्तरायस्य
लक्षणम् । क्षयोपशमः-ज्ञानादिघातिनां पुद्गलानां क्षयोपशमौ, केचित् क्षपिताः केचिदुपशान्ता' . इति क्षयोपशमावुच्येते, ताभ्यां निर्वृत्तोऽप्यवसायः क्षायोपशमिक इति । २. अनिरूपिततत्त्वाऽर्था प्रतीतिः संवृत्तिर्मता । ३. 'तदसिद्धौ' इत्यधिकं क. ह पुस्तकयो । ४. 'क्षणिकवादिनाम्' इति घ. पुस्तके पाठः । ५. 'अविमर्श' इति घ. पुस्तके पाठः । ‘अविमृश्यकारिताकारितम्' इति क. ख. पुस्तकयोः पाठः । (१३० NARAARRRRRRRANA स्याद्वादमञ्जरी)