________________
यस्य च निरवयवतयैते विलीनाः, स एवाप्तो भगवान् सर्वज्ञः ।अथ अनादित्वाद् रागादीनां कथं प्रक्षयः ? इति चेत् । न /उपायतस्तद्भेदात् । अनादेरपि सुवर्णमलस्य क्षारमृत्पुटपाकादिना विलयोपलम्भात् । तद्वदेवानादीनामपि रागादिदोषाणां प्रतिपक्षभूत रत्नत्रयाभ्यासेन विलयोपपत्तेः । क्षीणदोषस्य च केवलज्ञानाऽव्यभिचारात् सर्वज्ञत्वम् । तत्सिद्धिस्तुज्ञानतारतम्यं क्वचिद् विश्रान्तम्, तारतम्यत्वात् । आकाशे परिणामतारतम्यवत् । तथा सूक्ष्माऽन्तरितदूराऽर्थाः, कस्यचित्प्रत्यक्षाः, अनुमेयत्वात्, क्षितिधरकन्धराधिकरणधूमध्वजवत् । एवं चन्द्रसूर्योपरागादि सूचकज्योतिर्ज्ञानाविसंवादाऽन्यथानुपपत्तिप्रभृतयोऽपि हेतवो वाच्याः । तदेवमाप्तेन सर्वविदा प्रणीत आगमः प्रमाणमेव । तदप्रामाण्यं हि प्रणायकदोषनिबन्धनम् ।
'रागाद्वा द्वेषाद्वा मोहाद्वा वाक्यमुच्यते ह्यनृतम् । .
यस्य तु नैते दोषास्तस्याऽनृतकारणं किं स्यात् ?' ।।१।। इति वचनात् ।
प्रणेतुश्च निर्दोषत्वमुपपादितमेवेति सिद्ध आगमादप्यात्मा, 'एगे आया' इत्यादि वचनात्, तदेवं प्रत्यक्षानुमानाऽऽगमैः सिद्धः प्रमाता ।
प्रमेयं चानन्तरमेव बाह्याऽर्थसाधने साधितम् । तत्सिद्धौ च 'प्रमाणं ज्ञानम्, तञ्च प्रमेयाऽभावे कस्य ग्राहकमस्तु निर्विषयत्वात्' इति प्रलापमात्रम् । करणमन्तरेण क्रियासिद्धेरयोगाद्, 'लवनादिषु तथा दर्शनात् । यञ्च, अर्थसमकालमित्याद्युक्तम् । तत्र, विकल्पद्वयमपि स्वीक्रियत एव। अस्मदादिप्रत्यक्षं हि समकालार्थाऽऽकलनकुशलम्, स्मरणमतीताऽर्थस्य ग्राहकम्, शब्दानुमाने च त्रैकालिकस्याऽप्यर्थस्य परिच्छेदके ।
१ ज्ञानदर्शनचारित्राणि रत्नत्रयम् । २ उपरागः-चन्द्रसूर्ययो राहुकृतं ग्रहणम् । ३ स्थानाङ्गसूत्र १ स्थाने १ सूत्रे । ४ लवनं-छेदनम् ।
स्याद्वादमञ्जरीindianRRRRRRA १२९)