________________
यश्चैषां कर्ता, स आत्मा, गृहपतिवत् । वृक्षादीनां च सात्मकत्व'माचाराङ्गादेरवसेयम्, किंचिद्वक्ष्यते च । ___ तथा प्रेर्यं मनः, अभिमतविषयसम्बन्धनिमित्तक्रियाऽऽश्रयत्वाद, दारकहस्तगतगोलकवत्। यश्चाऽस्य प्रेरकः, स आत्मा, इति । तथा, आत्मचेतनक्षेत्रज्ञजीव *पुरुषादयः पर्याया न निर्विषयाः, पर्यायत्वाद्, घटकुटकलशादिपर्यायवत, व्यतिरेके षष्ठभूतादि । यश्चैषां विषयः, स आत्मा । तथा, अस्त्यात्मा, असमस्तपर्यायवाच्यत्वात्, यो योऽसाङ्केतिकशुद्धपर्यायवाच्यः, स सोऽस्तित्वं न व्यभिचरति, यथा घटादिः, व्यतिरेके खरविषाणनभोऽम्भोरुहादयः । तथा सुखाऽऽदीनि द्रव्याश्रितानि, गुणत्वाद्; रूपवत्, योऽसौ गुणी, स आत्मा । इत्यादिलिङ्गानि तस्मादनुमानतोऽप्यात्मा सिद्धः ।
आगमानां च येषां पूर्वापरविरुद्धार्थत्वम्, तेषामप्रामाण्यमेव । “यस्त्वाप्तप्रणीत आगमः, स प्रमाणमेव, कर्ष-च्छेद-तापलक्षणोपाधित्रयविशुद्धत्वात् । कषादीनां च स्वरूपं "पुरस्ताद्वक्ष्यामः ।
न च वाच्यमाप्तः क्षीणसर्वदोषः । तथाविधं चाऽऽप्तत्वं कस्यापि नास्तीति । यतः रागादयः कस्यचिदत्यन्तमुच्छिद्यन्ते, अस्मदादिषु तदुच्छेदप्रकर्षापकर्षोपलम्भात्, सूर्याद्यावरकजलदपटलवत् । तथा चाऽऽहु:
'देशतो नाशिनो भावा दृष्टा निखिलनश्वराः ।
मेघपङ्क्तयादयो यद्वत् एवं रागादयो मताः' ।।१।। इति । . १. 'आचाराङ्गात्' इति क. पुस्तकें पाठः । आचाराङ्गसूत्रश्रुतस्कंध १ अध्ययन १ उद्देश ५ । . २. श्लोक २९ । . ३.. 'पुद्गलादयः' इति क. पुस्तके पाठः । ४. 'समस्तपर्यायवाच्यत्वात्' इति क. पुस्तके पाठः । ५. आगमो ह्याप्तवचनमाप्तदोषक्षयं विदुः । क्षीणदोषोऽनृतं वाक्यं न ब्रूयादेव संभवात् ।। १ ।। __इत्यधिकं क. पुस्तके । ६. तापाच्छेदानिकषात्सुवर्णमिव पण्डितैः । परीक्ष्य भिक्षवो ग्राह्यं मद्वचो न तु गौरवात् ।। १ ।। ___ इत्यधिकं क. पुस्तके । ७. श्लोक. ३२ प्र. ४. (१२०ntr asta स्याद्वादमञ्जरी)