________________
इत्यर्थो दृश्यः । 'बन्धानुलोम्याञ्चेत्थमुपन्यासः । __ तथा भवभङ्गदोषः-भव आर्जवीभावलक्षणः संसारः, तस्य भङ्गो विलोपः, स एव दोषः क्षणिकवादे प्रसज्यते परलोकाऽभावप्रसङ्ग इत्यर्थः । परलोकिनः कस्यचिदभावात् । परलोको हि पूर्वजन्मकृतकर्माऽनुसारेण भवति । तञ्च प्राचीनज्ञानक्षणानां निरन्वयं नाशात् केन नामोपभुज्यतां जन्मान्तरे । यञ्च मोक्षाकरगुप्तेन
'यश्चित्तं तश्चित्ताऽन्तरं प्रतिसन्धत्ते, यथेदानीन्तनं चित्तं, चित्तं च मरणकालभावि'इति भवपरम्परासिद्धये प्रमाणमुक्तम्, तद् व्यर्थम् । चित्तक्षणानां निरवशेषनाशिनां चित्ताऽन्तरप्रतिसंधानाऽयोगात् । द्वयोरवस्थितयोहि प्रतिसंधानमुभयाऽनुगामिना केनचित् क्रियते । यश्चाऽनयोः प्रतिसंधाता, स तेन नाभ्युपगम्यते स ह्यात्मान्वयी । न च प्रतिसंधते इत्यस्य जनयतीत्यर्थः, कार्यहेतुप्रसङ्गात् । नेन वादिनाऽस्य हेतोः स्वभावहेतुत्वेनोक्तत्वात्, स्वभावहेतुश्च तादात्म्ये सति भवति, भिन्नकालभाविनोश्च चित्तचित्ताऽन्तरयोः कुतस्तादात्म्यम् । युगपद्भाविनोश्च प्रतिसन्धेयप्रतिसन्धायकत्वाऽभावापत्तिः, युगपद्भावित्वेऽविशिष्टेऽपि किमत्र नियामकम्, यदेकः प्रतिसन्धायकोऽपरश्च प्रतिसन्धेय इति । अस्तु वा प्रतिसन्धानस्य जननमर्थः । सोऽप्यनुपपन्नः । तुल्यकालत्वे, हेतुफलभावस्याऽभावात् । भिन्नकालत्वे च, पूर्वचित्तलक्षणस्य विनष्टत्वाद् उत्तरचित्तक्षणः कथमुपादानमन्तरेणोत्पद्यताम् ? इति यत्किञ्चिदेतत् । ___ तथा प्रमोक्षभङ्गदोषः-प्रकर्षेणाऽपुनर्भावेन कर्मबन्धनाद् मोक्षो मुक्तिः प्रमोक्षस्तस्यापि भंङ्गः प्राप्नोति । तन्मते तावदात्मैव नास्ति, कः प्रेत्य सुखीभवनाथ यतिष्यते । ज्ञानक्षणोऽपि संसारी कथमपरज्ञानक्षणसुखीभवनाय घटिष्यते । न हि दुःखी देवदत्तो यज्ञदत्तसुखाय चेष्टमानो दृष्टः । क्षणस्य तु दु:खं स्वरसनाशित्वात् तेनैव सार्धं दध्वंसे, सन्तानस्तु न वास्तवः कश्चित् । वास्तवत्वे तु, आत्माऽभ्युपगमप्रसङ्गः ।
१. श्लोकाक्षराधिक्येन वृत्तविधातो मा भवत्वतश्छन्दः-शास्रानुरोधात् कृतकर्मप्रणाश इत्यर्थे कृतेप्रणाश ___ इति श्लोके शब्दनिवेश इत्यर्थः । २. 'विनाशिनाम्' इति क. रा. ह. पुस्तकेषु पाठः । ३. 'भङ्गमाप्नोति' इति क. पुस्तके पाठः । (१३२
स्याद्वादमञ्जरी