________________
अपिच बौद्धाः' निखिलवासनोच्छेदेविगतविषयाऽऽकारोपप्लवविशुद्धज्ञानोत्पादो मोक्षः' इत्याहुस्तञ्च न घटते, कारणाऽभावादेव तदनुपपत्तेः- भावनाप्रचयो हि तस्य कारणमिष्यते, स च स्थिरैकाऽऽश्रयाऽभावाद् विशेषाऽनाधायकः, प्रतिक्षणमपूर्ववद् उपजायमानो निरन्वयविनाशी, गगनलङ्घनाभ्यासक्त् अनासादितप्रकों न स्फुटाभिज्ञानजननाय प्रभवति, इत्यनुपपत्तिरेवतस्य । समलचित्तक्षणानां स्वाभाविक्या: सदृशाऽऽरम्भणशक्तेर-सदृशाऽऽरम्भं प्रत्यशक्तेश्च, अकस्मादनुच्छेदात् । किं च, समलचित्तक्षणाः पूर्वे स्वरसपरिनिर्वाणा: २, अयमपूर्वो जातः सन्तानश्चैको न विद्यते, बन्धमोक्षौ चैकाऽधिकरणौ; नविषयभेदेन वर्तते । तत्कस्येयं मुक्तिर्य एतदर्थ प्रयतते । अयं हि मोक्षशब्दो बन्धनच्छेदपर्यायः । मोक्षश्च तस्यैव घटते यो बद्धः,,क्षणक्षयवादे त्वन्यः क्षणो बद्धः । क्षणाऽन्तरस्य च मुक्तिरिति प्राप्नोति मोक्षाऽभावः ।।
तथा स्मृतिभङ्गदोषः, तथा हि-पूर्वबुद्धानुभूतेऽर्थे नोत्तरबुद्धीनां स्मृतिः संभवति, ततोऽन्यत्वात्, सन्तानाऽन्तरबुद्धिवत् । न ह्यन्यदृष्टोऽर्थोऽन्येन स्मर्यते, अन्यथा एकेन दृष्टोऽर्थः सर्वैः स्मर्येत स्मरणाऽभावे च कौतस्कुती प्रत्यभिज्ञाप्रसूतिः । तस्याः स्मरणाऽनुभवोभयसंभवत्वात्- पदार्थप्रेक्षणप्रबुद्धप्राक्तन-संस्कारस्य हि प्रमातुः स एवायमित्याकारेण इयमुत्पद्यते । अथ स्यादयं दोषः, यद्यविशेषेणाऽन्यदृष्टमन्यः स्मरतीत्युच्यते। किन्तु, अन्यत्वेऽपि कार्यकारणभावाद् एव च स्मृतिः, भिन्नसंतानबुद्धीनां तु कार्यकारणभावो नास्ति, तेन सन्तानाऽन्तराणां स्मृतिर्न भवति । न चैकसांतानिकीनामपि बुद्धीनां कार्यकारणभावो नास्ति, येन पूर्वबुद्ध्यनुभूतेऽर्थे तदुत्तरबुद्धीनां स्मृतिर्न स्यात् । तदप्यनवदातम्, एवमपि अन्यत्वस्य तदवस्थत्वात्, न हि कार्यकारणभावाऽभिधानेऽपि तदपगतं, क्षणिकत्वेन सर्वासां भिन्नत्वात् । न हि कार्यकारणभावात् स्मृतिरित्यत्रोभयप्रसिद्धोऽस्ति दृष्टान्तः अथ
'यस्मित्रेव हि सन्ताने आहिता कर्मवासना। .. फलं तत्रैव संधत्ते कासे रक्तता यथा' ।।१।। इति
कर्पासे रक्ततादृष्टान्तोऽस्तीतिचेत् । तदसाधीयः, साधनदूषणयोरसम्भवात्, । १. सर्व क्षणिकं सर्वं क्षणिकमिति धारावाहिकबुद्धिरूपा भावनास्तासां प्रचयः समुदायः । २. परिनिर्वाण:-लयः । ३. कुत: कुत आगता प्रत्यभिज्ञाया: प्रसूतिः-उत्पत्तिः । ४. असंगतम् । स्याद्वादमञ्जरी AMARNAMAAAAAAAA(१३३)