________________
तथाहि- अन्वयाद्यसम्भवान्न साधनम् । न हि कार्यकारणभावो यत्र तत्र स्मृतिः, कर्पासे रक्ततावदित्यन्वयः सम्भवति, नापि यत्र न स्मृतिस्तत्र न कार्यकारणभाव इति व्यतिरेकोऽस्ति । असिद्धत्वाद्यनुद्भावनाञ्च न दूषणम् । नहि, ततोऽन्यत्वात् इत्यस्य हेतोः कर्पासे रक्ततावत् इत्यनेन कश्चिद्दोष: प्रतिपाद्यते ।
किञ्च, यद्यन्यत्वेऽपि कार्यकारणभावेन स्मृतेरुत्पत्तिरिष्यते, तदा शिष्याऽऽचार्यादि- बुद्धीनामपि कार्यकारणभावसद्भावेन स्मृत्यादिः स्यात् । अथ नाऽयं प्रसङ्गः, एकसंतानत्वे सतीति विशेषणादिति चेत् । तदप्ययुक्तम्, भेदाऽभेदपक्षाभ्यां तस्योपक्षीणत्वात् । क्षणपरम्परातस्तस्याऽभेदे हि क्षणपरम्परैव सा, तथा च संतान इति न किञ्चिदतिरिक्तमुक्तं स्यात् । भेदे तु पारमार्थिकः, अपारमार्थिको वाऽसौ स्यात् ? अपारमार्थिकत्वेऽस्य तदेव दूषणम्, अकिञ्चित्करत्वात् । पारमार्थिकत्वे, स्थिरो वा स्यात्, क्षणिको वा ? | क्षणिकत्वे, 'संतानिनिर्विशेष एवायम्, इति किमनेन स्तेनभीतस्य स्तेनान्तरशरणस्वीकरणानुकरणिना । स्थिरश्चेत् आत्मैव संज्ञाभेदतिरोहितः प्रतिपन्नः । इति न स्मृतिर्घटते क्षणक्षयवादिनाम् । तदभावे च, अनुमानस्याऽनुत्थानमित्युक्तम् प्रागेव । अपि च, स्मृतेरभावे निहितप्रत्युन्मार्गण-प्रत्यर्पणाऽऽदिव्यवहारा विशीर्येरन्'इत एकनवते कल्पे शक्तया मे पुरुषो हतः । तेन कर्मविपाकेन पादे विद्धोऽस्मि भिक्षवः ! ।। १ ।।
इति वचनस्य का गतिः । एवमुत्पत्तिरुत्पादयति, स्थितिः स्थापयति, जरा जर्जरयति, विनाशो नाशयतीति चतुःक्षणिकं वस्तु प्रतिजानाना अपि प्रतिक्षेप्याः, तदेवमनेकदोषाऽपातेऽपि यः क्षणभङ्गभिप्रेति, तस्य महत् साहसम् । इति काव्यार्थः । । १८ ।।
अथ तांथागताः क्षणक्षयपक्षे सर्वव्यवहाराऽऽनुपपत्तिं परैरुद्भावितामाकर्ण्य, इत्थं 'प्रतिपादयन्ति यत् पदार्थानां क्षणिकत्वेऽपि वासनाबललब्धजन्मना ऐक्याध्यवसायेन एहिकाऽऽमुष्मिकव्यवहारप्रवृत्तेः कृतप्रणाशाऽऽदिदोषा निरवकाशा एव, इति । तदाकूतं परिहर्तुकामस्तत्कल्पितवासनायाः क्षणपरम्परातो भेदाऽभेदाऽनु-भयलक्ष पक्षत्रयेऽप्यघटमानत्वं दर्शयन् स्वाऽभिप्रेतभेदाऽभेदद- स्याद्वादमकाम-यमानानपि
१. संताननिर्विशेष इत्यपि पाठः ।
२. 'प्रतिपादयिष्यन्ति' इति क. ख. घ. रा. पुस्तकेषु पाठः ।
३. 'सर्वपदार्थानाम्' इति क पुस्तके पाठः ।
१३४४७४४
ॐ ॐ ॐ ॐ ॐः स्याद्वादमञ्जरी