________________
तानङ्गीकारयितुमाह
सा वासना सा क्षणसन्ततिश्च नाऽभेद-भेदाऽनुभयैर्घटेते । ततस्तटाऽदर्शिशकुन्तपोतन्यायात् त्वदुक्तानि परे श्रयन्तु ।। १९ । ।
सा शास्त्रपरिकल्पिता, त्रुटितमुक्तावलीकल्पानां परस्परविशकलितानां क्षणानामन्योऽन्याऽनुस्यूतप्रत्ययजनिका, एकसूत्रस्थानीया सन्तानापरपर्याया वासना । वासनेति पूर्वज्ञानजनितामुत्तरज्ञाने शक्तिमाहुः । सा च, क्षणसन्ततिस्तद्दर्शनप्रसिद्धा । प्रदीपकलिकावद् नवनवोत्पद्यमानाऽपराऽपरसदृशक्षणपरम्परा, ते द्वे अपि अभेद-भेदाऽनुभयैर्न घटेते न तावदभेदेन तादात्म्येन, ते घटेते । तयोर्हि अभेदे, वासना वा स्यात् क्षणपरम्परा वा । न द्वयम्, यद्धि यस्मादभिन्नं न तत् ततः पृथगुपलभ्यते, यथा घटाद् घटस्वरूपम् । केवलायां वासनायामन्वयिस्वीकारः, वास्याऽभावे च किं तया वासनीयमस्तु । इति तस्या अपि न स्वरूपमवतिष्ठते । क्षणपरम्परामात्राऽङ्गीकरणे च ' प्राञ्च एव दोषाः ।
न च भेदेन ते युज्येते । सा हि भिन्ना वासना क्षणिका वा स्यात्, अक्षणिका वा। क्षणिका चेत् । तर्हि क्षणेभ्यस्तस्याः पृथक् कल्पनावैयर्थ्यम् । अक्षणिका चेत् । अन्वयिपदार्थाऽभ्युपगमेनाऽऽगमबाधः, तथा च पदार्थाऽन्तराणां क्षणिकत्वकल्पनाप्रयासो व्यसनमात्रम् ।
अनुभयपक्षेणाऽपि न घटेते । स हि कदाचित् एवं ब्रूयात्, नाहं वासनायाः क्षणश्रोणितोऽभेदं प्रतिपद्ये, न च भेदं किंत्वनुभयमिति । तदप्यनुचितम्, भेदभेदयोर्विधिनिषेधरूपयोरेकतरप्रतिषेधेऽन्यतरस्याऽवश्यं विधिभावात् अन्यतर
१. पूर्वोक्ता अष्टादशश्लोकोक्ताः ।
२. 'पृथक् कल्पनं व्यर्थम्' इति ख. ह. घ. रा. पुस्तकेषु पाठः । ३. केवलं संकटपरम्परेत्यर्थः । .
स्याद्वादमञ्जरी
४. १३५