________________
पक्षाभ्युपगमः, तत्र. च प्रागुक्त एव दोषः । अथवाऽनुभयरूपत्वेऽवस्तुत्वप्रसङ्गः, भेदाऽभेदलक्षणपक्षद्वयव्यतिरिक्तस्य मार्गाऽन्तरस्य नास्तित्वात् । अनार्हतानां हि वस्तुना भिन्नेन वा भाव्यम्, अभिनेन वा । तदुभयाऽतीतस्य वन्ध्यास्तनन्धयप्रायत्वात् । एवं विकल्पत्रयेऽपि क्षणपरम्परा- वासनयोरनुपपत्तौ पारिशेष्याद् भेदाऽभेदपक्ष एव कक्षीकरणीयः। न च 'प्रत्येकं यो भवेद् दोषो द्वयोर्भावे कथं न सः ।' इति वचनादत्राऽपि दोषतादवस्थ्यमिति वाच्यं 'कुक्कुटसर्पनरसिंहाऽऽदिवद् जात्यन्तरत्वादनेकान्तपक्षस्य ।
ननु आर्हतानां वासना-क्षणपरम्परयोरङ्गीकार एव नास्ति । तत्कथं तदाश्रयभेदाऽभेदचिन्ता चरितार्था इति चेत् । नैवम् । स्याद्वादवादिनामपि हि प्रतिक्षणं नवनवपर्यायपरम्परोत्पत्तिरभिमतेव,
तथा च क्षणिकत्वम् । अतीताऽनागतवर्तमानपर्यायपरम्पराऽनुसंधायकं चाऽन्वयिद्रव्यम्, तञ्च वासनेति संज्ञान्तरभाक्त्वेऽप्यभिमतमेव । न खलु नामभेदाद् वादः कोऽपि कोविदानाम् । सा च प्रतिक्षणोत्पदिष्णुपर्यायपरम्परा अन्वयिद्रव्यात् कथंचिद् भिन्ना, कथंचिदभिन्ना च । तथा तदपि तस्याः स्याद् भिन्नं स्यादभिन्नम् । इति पृथक्प्रत्ययव्यपदेशविषयत्वाद् भेदः, द्रव्यस्यैव च तथा तथा परिणमनादभेदः । एतच्च संकलाऽऽदेशविकलाऽऽदेशव्याख्याने पुरस्तात् प्रपञ्चयिष्यामः । ___ अपि च, बौद्धमते वासनाऽऽपि तावन्न घटते, इति निर्विषया तत्र भेदादिविकल्प चिन्ता। तल्लक्षणं हि- पूर्वक्षणेनोत्तरक्षणस्य वास्यता | न चाऽस्थिराणां भिन्नकालतयोऽन्योन्याऽसंबद्धानां च तेषां वास्यवासकभावो युज्यते, स्थिरस्य
१. 'अवश्यम्' इति क. ह. पुस्तकयोरधिकम् । २. यथा नरसिंहे नरत्वसिंहत्वोभयजातिव्यतिरिक्तं नरसिंहत्वाख्यं जात्यन्तरम् । तद्वदित्यर्थः ।
कुक्कुटसर्पोऽपि कश्चन कुक्कुटत्वसर्पत्वेत्युभयजातिव्यतिरिक्त: कुक्कुटसर्पत्वजातिमान् प्राणिविशेषः
स्यात् । ३. कोविदाः-पण्डिताः । ४. त्रयोविंशश्लोके
(१३६)NNNNNNNN
A
स्याद्वादमञ्जरी)