________________
संबद्धस्य च वस्त्रादेर्मुगमदाऽऽदिना' वास्यत्वं दृष्टमिति । अथ पूर्वचित्तसहजात् चेतनाविशेषात् पूर्वशक्तिविशिष्टं चित्तमुत्पद्यते, सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना । तथाहि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत्तत् षड्विधं । पञ्च रूपादिविज्ञानान्यविकल्पकानि, षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकालश्चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम्, तस्मात् पूर्वशक्तिविशिष्टचित्तोत्पादो वासनेति । तदपि न, अस्थिरत्वाद्वासकेनाऽसंबन्धाञ्च । यश्चासौ चेतनाविशेष: पूर्वचित्तसहभावी, स न वर्तमाने चेतस्युपकारं करोति वर्तमानस्याशक्यापनेयापनेयत्वेनाऽविकार्यत्वात्, तद्धि यथाभूतं जायते तथाभूतं विनश्यतीति । नाप्यनागते उपकारं करोति । तेन सहाऽसंबद्धत्वात्, असंबद्धं च न भावयतीत्युक्तम् । तस्मात् सौगतमते वासनाऽपि न घटते । अत्र च स्तुतिकारेणाभ्युपेत्याऽपि ताम्, अन्वयिद्रव्यव्यवस्थापनाय भेदाऽभेदादिचर्चा विवरितेति भावनीयम् । __अथोत्तराऽर्धव्याख्या-तत इति पक्षत्रयेऽपि दोषसद्भावात् त्वदुक्तनि भवद्वचनानि भेदाऽभेदस्याद्वादसंवादपूतानि, परे कुतीर्थ्याः प्रकरणात् "मायातनयाः, श्रयन्तु आद्रियन्ताम्। अत्रोपमानमाह । तटादशीत्यादि-तटं न पश्यतीति तटाऽदर्शी, यः शकुन्तपोतः पक्षिशावकः, तस्य न्याय उदाहरणम्, तस्मात् । यथा किल कथमप्यपारावारान्तः पतितः काकादिशकुनिशावको बहिर्निर्जगमिषया प्रवहणकूपस्तम्भादेस्तटप्राप्तये मुग्धतयोड्डीनः, समन्ताज्जलैकार्णवमेवावलोकयंस्तटमदृष्ट्वैव निर्वेदाद व्यावृत्त्य तदेव कूपस्तम्भादिस्थानमाश्रयते । गत्यन्तराऽभावात् । एवं तेऽपि कुतीर्थ्याः प्रागुक्तपक्षत्रयेऽपि वस्तुसिद्धिमनासादयन्तस्त्वदुक्तमेव चतुर्थं भेदाऽभेदपक्षमनिच्छयाऽपि कक्षीकुर्वाणास्त्वच्छासनमेव प्रतिपद्यन्ताम् । नहि स्वस्य बलिविकलतामाकलय्य बलीयसः प्रभोः शरणाऽऽश्रयणं दोषपोषाय नीतिशालिनाम् । त्वदुक्तानीति बहुवचनं सर्वेषामपि तन्त्रान्तरीयाणां पदे पदेऽनेकान्तवाद
१. मृगमदः-कस्तूरिका । २. 'भेदाऽभेदचर्चा' इति क. पुस्तके पाठः । ३. 'विरचितेति' ह. क. पुस्तकयोः पाठः । ४. 'विभावनीयम्' इति ख. पुस्तके पाठः । ५. 'मायासूनवीयाः' इति क. ह. पुस्तकयोः पाठः । ६. उद्वेगात् । स्याद्वादमञ्जरी M
a uritish १३७)