________________
प्रतिपत्तिरे व यथावस्थितपदार्थप्रतिपादनौपयिकं नान्यदिति ज्ञापनार्थम् । अनन्तऽऽधर्मात्मकस्य सर्वस्य वस्तुनः सर्वनयाऽऽत्मकेन स्याद्वादेन विना यथावद् ग्रहीतुमशक्यत्वात् । इतरथाऽन्धगजन्यायेन पल्लवग्राहिताप्रसङ्गात् । श्रयन्तीति वर्तमानान्तं केचित्पठन्ति, तत्राप्यदोषः ।
अत्र च समुद्रस्थानीयः संसारः, "पोतसमानं त्वच्छासनम्, कूपस्तम्भसंनिभः स्याद्वादः, पक्षिपोतोपमा वादिनः, ते च स्वाभिमतपक्षप्ररूपणोड्डयनेन मुक्तिलक्षणतटप्राप्तये कृतप्रयत्ना अपि तस्माद् इष्टार्थसिद्धिमपश्यन्तो व्यावृत्त्य स्याद्वादरूपकूपस्तम्भाऽलङ्कृत- तावकीनशासनप्रवहणोपसर्पणमेव यदि शरणीकुर्वते, तदा तेषां भवार्णवाद् बहिनिष्क्रमणमनोरथः सफलतां कलयति, नाऽपरथा इति काव्यार्थः ।।१९।।.
. एवं क्रियावादिनां "प्रावादुकानां कतिपयकुग्रहनिग्रहं विधाय सांप्रतमक्रियावादिनां लोकायतिकानां मतं 'सर्वाधमत्वादन्त उपन्यस्यन्, तन्मतमूलस्य प्रत्यक्षप्रमाणस्याऽनुमानाऽऽदिप्रमाणाऽन्तराऽनङ्गीकारेऽकिंचित्करत्वप्रदर्शनेन तेषां प्रज्ञायाः प्रमादमादर्शयति
विनाऽनुमानेन पराभिसन्धि
मसंविदानस्य तु नास्तिकस्य । १. 'अनेकधर्मात्मनः सर्वस्यापि' इति क. पुस्तके पाठः । २. अन्धगजन्याय: (९६). पत्रे द्रष्टव्यः । ३. लक्षणं-१ किंचिन्मात्रग्राहिण: २ पल्लवग्राहिण: ३ त्वरितग्राहिणः एवमेषा दुर्विदग्धपर्षत् त्रिविधा भणिता । तेषु पल्लवग्राहिणीमाह
'नय कत्थइ निम्मातो ण य पुच्छइ परिभवस्स दोसेणं ।
वत्थीव वायपुण्णो फुट्टइ गामिल्ल गवियड्ढो ।। ग्रामेयकेषु विदग्धो ग्रामेयकविदग्धो न च कुत्रचिनिर्मातः सर्वत्र पल्लवमात्रग्राहित्वात् । न च परं पृच्छति परिभवो मे भविष्यतीति । परिभवस्य दोषेण केवलं वस्तिरिव वातपूर्णः पण्डितोऽयमिति लोकप्रवादगर्वितः स्फुटति स्फुटनिव तिष्ठति' । इति सभाष्या बृहत्कल्पवृत्तिः
उ. ए. प्र. १ । ४. 'पोतसमम्' इति क. पुस्तके पाठः । . ५. प्रावादुका:-वाग्मिनः । ६. लौकायतिकाः-चार्वाकाः । (१३८
स्याद्वादमञ्जरी)