________________
न साम्प्रतं वक्तुमपि क्व चेष्टा क्व दृष्टमात्रं च हहा ! प्रमाद: ।।२०।।
प्रत्यक्षमेवैकं प्रमाणमिति मन्यते चार्वाकः । तत्र 'सन्नह्यते । अनु पश्चाद् लिङ्गसंबन्धग्रहणस्मरणाऽनन्तरम्, मीयते परिच्छिद्यते, देशकालस्वभावविप्रकृष्टोऽर्थोऽनेन ज्ञानविशेषेण, इत्यनुमान प्रस्तावात् 'स्वार्थाऽनुमानम् । तेनानुमानेन लैङ्गिकप्रमाणेन विना पराऽभिसंधिपराभिप्रायम्, असंविदानस्य-सम्यग् अजानानस्य । तुशब्दः पूर्ववादिभ्यो भेदद्योतनार्थः- पूर्वेषां वादिनामास्तिकतया विप्रतिपत्तिस्थानेषु क्षोदः कृतः । नास्तिकस्य तु वक्तुमपि नौचिती, कुत एव तेन सह क्षोदः? इति तुशब्दार्थः । नास्ति परलोकः, पुण्यम्, पापम् इति वा मतिरस्य 'नास्तिकास्ति-कदैष्टिकम् इति निपातनात् नास्तिकः । तस्य नास्तिकस्य लौकायतिकस्य, वक्तुमपि न सांप्रतं वचनमप्युञ्चारयितुं नोचितम्, ततस्तूष्णीभाव एवास्य श्रेयान् दूरे प्रामाणिकपरिषदि प्रविश्य प्रमाणोपन्यासगोष्ठी।
वचनं हि परप्रत्ययनाय प्रतिपाद्यते । परेण चाऽप्रतिपित्सितमर्थं "प्रतिपादयन् नासौ सतामवधेयवचनो भवति, उन्मत्तवत् । ननु कथमिव तूष्णीकतैवास्य श्रेयसी, यावता चेष्टाविशेषादिना प्रतिपाद्यस्याऽभिप्रायमनुमाय सुकरमेवाऽनेन वचनोञ्चारणम् । इत्याऽऽशङ्कयाह क्व चेष्टा क्व दृष्टमात्रं च इति । क्वेति बृहदन्तरे, चेष्टा इङ्गितं पराभिप्रायस्याऽनुमेयस्य लिङ्गम् । क्व च दृष्टमात्रम् । दर्शनं दृष्टं, भावे क्त: । दृष्टमेव दृष्टमात्रम् प्रत्यक्षमात्रम्, तस्य लिङ्गनिरपेक्षप्रवृत्तित्वात् । अत एव दूरमन्तरमेतयोः । न हि प्रत्यक्षेणाऽतीन्द्रियाः परचेतोवृत्तयः परिज्ञातुं १. खण्डनार्थ प्रयत्यते । २. अनुमानं द्विविध-स्वाऽर्थं पराऽर्थं च-तत्र हेतुग्रहणसम्बन्धस्मरणकारकं साध्यविधानं स्वार्थम् । • पक्षहेतुवचनाऽऽत्मकं परार्थमनुमानमुपचारात्' इति प्रमाणनयतत्त्वाऽऽलोकाऽलङ्कारे तृतीयपरिच्छेदे
सूत्र १०, २३ । ३. क्षोदः-विचारः । ४. हैमसूत्रम् ६-४-६६ ।। ५. 'प्रतिपादयन्नसौ' इति क. ख. घ. रा. पुस्तकेषु पाठ: । ६. 'तक्तवतू' इति हैमसूत्रम् ४।१।१७४ हैमसूत्रम् ।। स्याद्वादमञ्जरी Akshradunia
१३९)