________________
शक्याः, तस्यैन्द्रिकत्वात्। मुखप्रसादाऽऽदिचेष्टया तु लिङ्गभूतया पराऽभिप्रायस्य निश्चये अनुमानप्रमाणमनिच्छतोऽपि तस्य बलादापतितम् । तथाहिमद्वचनश्रवणाऽभिप्रायवानयं पुरुषः तादृग् मुखप्रसादादिचेष्टाऽन्यथानुपपत्तेरिति । अतश्च हा ! प्रमादः - हहा इति खेदे अहो ! तस्य प्रमादः प्रमत्तता, यदनुभूयमानमप्यनुमानं प्रत्यक्षमात्राङ्गीकारेणाऽपह्नुते । अत्र संपूर्वस्य वेत्तेरकर्मकत्व 'एवात्मनेपदम्, अत्र तु कर्माऽस्ति, तत्कथमत्रानश् । अत्रोच्यते-अत्र संवेदितुं शक्तः संविदान इति कार्यम्, 'वयः 'शक्तिशीले' इति शक्तौ ज्ञानविधानात् । ततश्चाऽयमर्थः- अनुमानेन विना पराऽभिसंहितं सम्यग्वेदितुमशक्तस्येति । एवं परबुद्धिज्ञानाऽन्यथानुपपत्त्याऽयमनुमानं हठादङ्गीकारितः । तथा प्रकारान्तरेणाप्ययमङ्गीकारयितव्यः । तथाहि चार्वाकः काश्चित् ज्ञानव्यक्तीः संवादित्वेनाव्यभिचारिणीरुपलभ्य, अन्याश्च विसंवादित्वेन व्यभिचारिणीः पुनः कालाऽन्तरे तादृशीतराणां ज्ञानव्यक्तीनामवश्यं प्रमाणतेतरते व्यवस्थापयेत् । न च सन्निहिताऽर्थबलेनोत्पद्यमानं पूर्वापरपरामर्शशून्यं प्रत्यक्षं पूर्वापरकालभाविनीनां ज्ञानव्यक्तीनां प्रामाण्याऽप्रामाण्यव्यवस्थापकं ३ निमित्तमुपलक्षयितुं क्षमते । न च अयं स्वप्रतीतिगोचराणामपि ज्ञानव्यक्तीनां परं प्रति प्रामाण्यमप्रामाण्यं वा व्यवस्थापयितुं प्रभवति । तस्माद् यथादृष्टज्ञानव्यक्तिसाधर्म्यद्वारेणेदानीन्तनज्ञानव्यक्तीना प्रामाण्याऽप्रामाण्यव्यवस्थापकम् परप्रतिपादकं च प्रामाणान्तरमनुमानरूप मुपासीत । परलोकादिनिषेधश्च न प्रत्यक्षमात्रेणं शक्यः कर्तुम्, संनिहितमात्रविषयत्वात् तस्य । परलोकादिकं चाप्रतिषिध्य नाऽयं सुखमास्ते, प्रमाणाऽन्तरं च नेच्छतीति डिम्भवाकः ४
।
किञ्च, प्रत्यक्षस्याप्यर्थाऽव्यभिचारादेव प्रामाण्यम् । कथमितरथा स्नानपानाऽवगाहनाद्यर्थक्रियासमर्थे "मरुमरीचिकानिचयचुम्बिनि जलज्ञाने न प्रामाण्यम् । तच अर्थप्रतिबद्धलिङ्गशब्दद्वारा समुन्मज्जतोरनुमानाऽऽगमयोरप्यर्थाऽव्यभिचारादेव १. समो गमृच्छिप्रच्छिश्रुवित्स्वरत्यर्तिदृशः । ३-३-८४ संपूर्वेभ्यः कर्मण्यसति कर्तर्यात्मनेपदं स्यात्' ।
२. हैमसूत्रे, ४ । २ । २४ ।
३. 'परप्रतिपादकं' इत्यधिकं क पुस्तके ।
४. बालहठः ।
५. मरुंमरीचिका मृगजलम् ।
१४०
स्याद्वादमञ्जरी