________________
किं नेष्यते ?। व्यभिचारिणोरप्यनयोर्दर्शनाद् अप्रामाण्यमिति चेत् । प्रत्यक्षस्याऽपि तिमिराऽऽदिदोषाद् निशीथिनीनाथयुगलाऽवलम्बिनोऽप्रमाणस्य दर्शनात् सर्वत्राऽप्रामाण्यप्रसङ्गः । प्रत्यक्षाऽभासं तदिति चेत् । इतरत्राऽपि तुल्यमेतत् । अन्यत्र पक्षपातात् । एवं च प्रत्यक्षमात्रेण वस्तुव्यवस्थाऽनुपपत्तेः, तन्मूला जीवपुण्यापुण्यपरलोकनिषेधादिवादा अप्रमाणमेव । एवं नास्तिकाभिमतो भूतचिद्वादोऽपि निराकार्यः । तथा च द्रव्यालङ्कारकार उपयोगवर्णने-'न चाऽयं भूतधर्मः सत्त्वकठिनत्वाऽऽदिवद्, मद्याऽङ्गेषु भ्रम्याऽऽदिशक्तिवद् वा प्रत्येकमनुपलम्भात् । अनभिव्यक्तावात्मसिद्धिः । कायाकारपरिणातेभ्यस्तेभ्यः स उत्पद्यते इति चेत् । कायपरिणामोऽपि तन्मात्रभावी न कादाचित्कः, अन्यस्त्वात्मैव स्यात् । अहेतुत्वे न देशादिनियमः, मृतादपि च स्यात् । शोणिताधुपाधिः सुप्तादावप्यस्ति, न च सतस्तस्योत्पत्तिः भूयो भूयः प्रसङ्गात्, अलब्धाऽऽत्मनश्च प्रसिद्धमर्थक्रियाकारित्वं विरुध्यते । असतः सकलशक्तिविकलस्य कथमुत्पतौ कर्तृत्वम् अन्यस्याऽपि प्रसङ्गात् । तत्र भूतकार्यमुपयोगः । कुतस्तर्हि सुप्तोत्थितस्य तदुदयः ? असंवेदनेन चैतन्यस्याऽभावांत् । न, जाग्रदवस्थाऽनुभूतस्य स्मरणाद् असंवेदनं तु निद्रोपघातात् । कथं तर्हि कायविकृतौ चैतन्यविकृतिः । नैकान्तः, श्वित्रादिना कश्मलवपुषोऽपि बुद्धिशुद्धः, अविकारे च भावनाविशेषः प्रीत्यादिभेददर्शनात्, शोकाऽदिना बुद्धिविकृतौ कायविकाराऽदर्शनाच । परिणामिनो विना च न कार्योत्पत्तिः । न च भूतान्येव तथा परिणमन्ति । विजातीयत्वात्, काठिन्यादेरनुपलम्भात् । अणव एवेन्द्रियग्राह्यत्वरूपां स्थूलतां प्रतिपद्यन्ते, तजात्यादि चोपलभ्यते । तन्न भूतानां धर्मः, फलं वा उपयोगः । तथा भवांश्च यदाक्षिपति तदस्य लक्षणम् । स चात्मा स्वसंविदितः । भूतानां तथाभावे बहिर्मुखं स्याद् गौरोऽहमित्यादि तु नान्तर्मुखं बाह्यकरणजन्यत्वात् । अनभ्युपगताऽनुमानप्रामाण्यस्य चात्मऽऽनिषेधोऽपि दुर्लभ:
१. 'न' इत्यधिकं क. पुस्तके । २. श्वित्रं-कुष्ठम् । ३. 'अपि' इति क. पुस्तके नास्ति ।
स्याद्वादमञ्जरी
A
nivakar
१४१)