________________
धर्मः फलं च भूतानाम् उपयोगो भवेद् यदि ।
प्रत्येकमुपलम्भः स्यादुत्पादो वा विलक्षणात् ।।१।। इति काव्यार्थः ।।२०।।
एवमुक्तयुक्तिभिरेकान्तवादप्रतिक्षेपमाख्याय साम्प्रतमनाद्यविद्यावासनाप्रवासितसन्मतयः प्रत्यक्षोपलक्ष्यमाणमप्यनेकान्तवादं येऽवमन्यन्ते, तेषामुन्मत्ततामाविर्भावयन्नाह
प्रतिक्षणोत्पादविनाशयोगिस्थिरैकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते य:
स वातकी नाथ. पिशाचकी वा' ||२१।। प्रतिक्षणं प्रतिसमयम् उत्पादेनोत्तराकारस्वीकाररूपेण, विनाशेन च पूर्वाकारपरिहारलक्षणेन, युज्यत इत्येवं शीलं प्रतिक्षणोत्पादविनाशयोगि। किं तत्, स्थिरैकं कर्मताऽऽपन्नं- स्थिरमुत्पादविनाशयोरनुयायित्वात् त्रिकालवर्ति यदेकं द्रव्यं स्थिरैकम्। एकशब्दोऽत्र साधारणवाची । उत्पादे विनाशे च तत्साधारणम्, अन्वयिद्रव्यत्वात् । यथा चैत्रमैत्रयोरेका जननी साधारणेत्यर्थः । इत्थमेव हि तयोरेकाऽधिकरणता । पर्यायाणां कथञ्चिदनेकत्वेऽपि तस्य कथञ्चिदेकत्वात् । एवं त्रयाऽऽत्मकं वस्तु, अध्यक्षमपीक्षमाणः प्रत्यक्षमवलोकयन् अपि, हे जिन ! रागादिजैत्र ! त्वदाज्ञाम्आ सामस्त्येनाऽनन्तधर्मविशिष्टतया ज्ञायन्तेऽवबुध्यन्ते जीवाऽऽदयः पदार्था यया सा आज्ञा आगमः शासन, तवाज्ञा त्वदाज्ञा तां त्वदाज्ञां-भवत्प्रणीतस्याद्वादमुद्राम्, यः कश्चिदविवेकी, अवमन्यतेऽवजानाति, जात्यपेक्षमेकवचनमवज्ञया वा । स पुरुषपशुर्वातकी पिशाचकी वा-वातो रोगविशेषोऽस्तीति वातकी वातकीव, वातूल
१. 'च' इति क. पुस्तके पाठः । २. 'जीवाऽजीवादयः' इति क. ह. पुस्ककयोः पाठः ।
(१४२
स्याद्वादमञ्जरी)