________________
इत्यर्थः । एवं पिशाचकव पिशाचकी, भूताऽविष्ट इत्यर्थः । अत्र 'वाशब्दः समुच्चयार्थः, उपमानाऽर्थो वा । स पुरुषापसदो वातकि - पिशाचकिभ्यामधिरोहति तुलामित्यर्थः’ 'वातातीसारपिशाचात्कश्चान्तः" इत्यनेन मत्वर्थीयः कश्चान्तः । एवं पिशाचकीत्यपि । यथा किल वातेन पिशाचेन वाऽऽक्रान्तवपुर्वस्तुतत्त्वं साक्षात्कुर्वन्नपि तदावेशवशात् अन्यथा प्रतिपद्यते, एवमयप्येकान्तवादाऽपस्मारपरवश इति ।
अत्र च जिनेति साभिप्रायम् । रागादिजेतृत्वाद् हि जिनः । ततश्च यः किल विगलितदोषकालुष्यतयाऽवधेयवचनस्याऽपि तत्रभवतः शासनमवमन्यते, तस्य कथं नोन्मत्ततेति भावः । नाथ ! हे स्वामिन्, अलब्धस्य सम्यग्दर्शनादेर्लम्भकतया, लब्धस्य च तस्यैव निरतिचारपरिपालनोपदेशदायितया च योगक्षेमकरत्वोपपत्तेर्नाथः, तस्यामन्त्रणम् 1
वस्तुतत्त्वं चोत्पादव्ययध्रौव्याऽऽत्मकम् । तथाहि सर्वं वस्तु द्रव्याऽऽत्मना नोत्पद्यते विपद्यते वा । परिस्फुटमन्वयदर्शनात् । लूनंपुनर्जातंनखादिष्वन्वयदर्शनेन व्यभिचार इति न वाच्यम् । प्रमाणेन बाध्यमानस्याऽन्वयस्यापरिस्फुटत्वात् । न च प्रस्तुतोऽन्वयः प्रमाणविरुद्धः, सत्यप्रत्यभिज्ञानसिद्धत्वात्
'सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्यश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।१।।
इति वचनात् ।
ततो द्रव्यात्मना स्थितिरेव सर्वस्य वस्तुनः पर्यायात्मना तु सर्वं वस्तुत्पद्यते विपद्यते च । अस्खलितपर्यायाऽनुभवसद्भावात् । न चैवं शुक्ले शङ्खे पीताऽऽदिपर्यायाऽनुभवेन व्यभिचारः तस्य स्खलद्रूपत्वात्, न खलु सोऽस्खलद्रूपो येन पूर्वाऽऽकारविनाशाऽजहद्- धृतोत्तराऽऽकारोत्पादाऽविनाभावि भवेत्, न च जीवादौ वस्तुनि हर्षोऽमर्षोदासीन्याऽऽदि - पर्यायपरम्पराऽनुभवः स्खलद्रूपः, कस्यचिद् बाधकस्याऽभावात् ।
१. ' च शब्दाः' इति क पुस्तके पाठः ।
२. हैमसूत्रम् ७ । २ । ६१
३. यत्र विरुद्धं प्रलपति रोगी तादृशो ज्वरविशेषोऽपस्मारशब्दवाच्यः ।
४. नखकेशादि लूनं छिन्नमपि पुनर्जायते
५. 'खल्वसौ' इति क पुस्तके पाठः ।
स्याद्वादमञ्जरी ॐ ॐ ॐ
ॐ ॐ ॐ ॐ ॐ ॐ ॐ १४३