________________
ननूत्पादादयः परस्परं भिद्यन्ते न वा ? । यदि भिद्यन्ते, कथमेकं वस्तु त्रयात्मकम्? न भिद्यन्ते चेत् । तथापि कथमेकं त्रयात्मकम् ? तथाच
यद्युत्पादाऽऽदयो भिनाः कथमेकं त्रयाऽऽत्मकम । अथोत्पादाऽऽदयोऽभित्राः कथमेकं त्रयाऽऽत्मकम् ।।१।।
इति चेत् । तदयुक्तं, कथंचिद्भिवलक्षणत्वेन तेषां कथञ्चिद्भेदाऽभ्युपगमात् । तथाहि- उत्पादविनाशध्रौव्याणि स्याद् भिन्नानि, भिनलक्षणत्वात्, रूपादिवदिति । न च भिन्नलक्षणत्वमसिद्धम् । असत आत्मलाभः, सतः सत्तावियोगः, द्रव्यरूपतयाऽनुवर्तनं च खलूत्पादादीनां परस्परमसंकीर्णानि लक्षणानि सकललोकसाक्षिकाण्येव । .
न चाऽमी भिन्नलक्षणा अपि परस्परानपेक्षाः, खपुष्पवदसत्त्वाऽऽपत्तेः । तथाहि-उत्पादः केवलो नास्ति, स्थितिविगमरहितत्वात् कूर्मवत् । तथा विनाशः केवलो नास्ति, स्थित्युत्पत्तिरहितत्वात्, तद्वत् । एवं स्थितिः के वला नास्ति, विनाशोत्पादशून्यत्वात्, तद्वदेव । इत्यन्योऽन्याऽपे- . क्षाणामुत्पादादीनां वस्तुनि सत्त्वं प्रतिपत्तव्यम् । तथा चोक्तम्
घट-मौलि-सुवर्णार्थी नाशोत्पादस्थितिष्वयम् । शोक-प्रमोद-माध्यस्थ्यं जनो याति सहेतुकम् ।।१।। पयोवृत्तो न दध्यत्ति न पयोऽत्ति दधिव्रतः ।
अगोरसवतो नोभे तस्माद् वस्तु त्रयाऽऽत्मकम् ।।२।।' इति काव्यार्थः ।।२१।। ___ अथाऽन्ययोगव्यवच्छेदस्य प्रस्तुतत्वाद् आस्तां तावत्साक्षाद् भवान्, भवदीयप्रवचनाऽवयवा अपि परतीर्थिकतिरस्कारबद्धकक्षा इत्याशयवान् स्तुतिकारः स्याद्वाद- व्यस्थापनाय प्रयोगमुपन्यस्यन् स्तुतिमाह
१ श्रीसमन्तभद्रस्वामिकृता आप्तमीमांसा श्लो. ५९।६० । २ अयं श्लोकः क. पुस्तके नास्ति ।
(१४४
स्याद्वादमञ्जरी)