________________
अनन्तधर्मात्मकमेव तत्त्वमतोऽन्यथा सत्त्वमसूपपादम् । .. इति प्रमाणान्यपि ते कुवादि- . कुरङ्गसंत्रासनसिंहनादा: ||२२|
तत्त्वं परमार्थभूतं वस्तु-जीवाऽजीवलक्षणम्, अनन्तधर्मात्मकमेवअनन्तात्रिकालविषयत्वाद् अपरिमिता ये धर्माः सहभाविमः क्रमभाविनश्च पर्यायाः । त एवात्मा स्वरूपं यस्य तदनन्तधर्मात्मकम्, एवकारः प्रकाराऽन्तरव्यवच्छेदाऽर्थः । अत एवाह-अतोऽन्यथा इत्यादि । अतोऽन्यथा उक्तप्रकारवैपरीत्येन. सत्त्वं, वस्तुतत्त्वमसूपपाद-सुखेनोपपाद्यते घटनाकोटिसंटङ्कमारोप्यते इति :सूपपादं न तथा असूपपादं दुर्घटमित्यर्थः। अनेन साधनं दर्शितम् । तथाहि-तत्त्वमिति धर्मि, अनन्तधर्मात्मकत्वं साध्यो धर्मः; सत्त्वाऽन्यथाऽनुपपत्तेरिति हेतुः, अन्यथाऽनुपपत्त्येक लक्षणत्वाद्धेतोः । अन्तर्व्याप्त्यैव साध्यस्य सिद्धत्वाद् दृष्टान्तादिभिर्न प्रयोजनम्, यदनन्तधर्मात्मकं न भवति तत् सदपि न भवति, यथा 'वियदिन्दीवरम्, इति केवलव्यतिरेकी हेतुः । साधर्म्यदृष्टान्तानां पक्षकुक्षिनिक्षिप्तत्वेनाऽन्वयाऽयोगात् ।
अनन्तधर्मात्मकत्वं च-आत्मनि तावद् साकाराऽनाकारोपयोगिता, कर्तृत्वं पभोक्तृत्वं, प्रदेशाऽष्टकनिश्चलता, अमूर्तत्वम्, असंख्यातप्रदेशात्मकता, "जीवत्वमित्यादयः सहभाविनो धर्माः । हर्ष-विषाद-शोक-सुख-दुःख-देव
१. 'लक्षणात्' इति क. पुस्तके पाठः । २. आकाशकमलम् । ३. पक्षान्तर्गतवेनेत्यर्थः । ४. श्रीहरिभद्रसूरिणा धर्मसंग्रहण्यां ५४६ गाथामारभ्य पंचत्रिंशद्भिर्गाथाभिः: समुपपादितम् । ५. धर्मसंग्रहण्यां ५८१ गाथामारभ्य पञ्चविंशतिभिर्गाथाभिः प्रसाधितम् । ६. धर्मसंग्रहणीगाथा १९२।१९३ ७. धर्मसंग्रहण्यां ३६ गाथामारभ्य त्रयोविंशत्यधिकेन गाथाशतकेन जीवसत्ता प्रसाधिता । स्याद्वादमञ्जरी Mukun kusuk१४५)