________________
नर-नारक-तिर्यक्त्वाऽऽदयस्तु क्रमभाविनः । 'धर्माऽस्तिकायादिष्वपि असंख्येयप्रदेशात्मकत्वम्, गत्याधुपग्रहकारित्वम्, मत्यादिज्ञानविषयत्वम्, तत्तदवच्छेद्रकाऽवच्छेद्यत्वम्, अवस्थितत्वम्, अरूपित्वम्, एकद्रव्यत्वम्, निष्क्रियत्वमित्यादयः । घटे पुनरामत्वम्, 'पाकजरूपादिमत्त्वम्, पृथुबुनोदरत्वम्, कम्बुग्रीवत्वम्, जलादिधारणाऽऽ*हरणादिसामर्थ्यम्, मत्यादिज्ञानज्ञेयत्वम्, नवत्वम्, पुराणत्वमित्यादयः । एवं सर्वपदार्थेष्वपि नानानयमताऽभिज्ञेन शाब्दानार्थांश्च पर्यायान् प्रतीत्य वाच्यम् ।
१. अस्तीत्ययं त्रिकालवचनो निपातः । अभूवन् भवन्ति भविष्यन्ति चेति भावना। अतोऽस्ति च
ते प्रदेशानां (तादृशदेशसम्बन्धकत्वे सति अविभागभागविशेषकल्पनारूप:-प्रदेशः) कायाश्च राशय इति अस्तिशब्देन प्रदेशप्रदेशाः क्वचिदुच्यन्ते, ततश्च तेषां वा कायाः अस्तिकायाः । सा चतुर्धा धर्मास्तिकायः, अधर्मास्तिकायः, आकाशास्तिकायः, पुद्गलास्तिकायश्च । एत एव कालेन सह पञ्च अजीवसामान्यमस्ति, जीवेन सह च षड्द्रव्याणीति कथ्यन्ते । १ स्वभावतः सञ्चरतां जीवपुद्गलानां गमनागमनादिचेष्टासु भाषामनोवचःकाययोगादिषु मीनानां पानीयमिव यदपेक्षितकारणं तद्रूपत्वम्, गतिरूपेण परिणतानां जीवपुद्गलानां गतौ यदपेक्षितकारणं तद्रूपत्वं वा धर्मास्तिकायस्य लक्षणम् । २ स्वभावतः स्थितिमतां जीवपद्गलानां, पान्थानां छायास्थलमिव शयननिषदनस्थाना- लम्बनादिषु यत्साधारणनिमित्तं तद्रूपत्वम्, स्थितिरूपेण परिणतानां जीवपुद्गलानां यत् साधारणनिमित्तत्वं तद्रूपत्वं वाऽधर्मास्तिकायस्य लक्षणम् । ३ अवगाहमानानां पदार्थानामवकाशे शर्करावयोर्दुग्धायोगोलकवत् हेतुताधारकत्वमाकाशस्य लक्षणम् । ४ ग्रहणधारणादिपरिणामत्वे सति रूपादिमत्त्वम्, रूपादिसंस्थानपरिणामरूपत्वं वा पुद्गलास्तिकायस्य लक्षणम् ।.५ वर्तन्ते भवन्ति भावास्तेन रूपेण तान् प्रति प्रयोजकत्वं वर्तना सा लक्षणमस्येति वर्तनालक्षणः कालंः द्रुमादिपुष्पोद्भेदादिनैयत्यहेतुः । ६ उपयोगवत्त्वं जीवस्य लक्षणम् । ज्ञानदर्शनयोः सम्यक् स्वविषयकसीमानुल्लङ्घनेन धारणरूपवत्त्वम्, बाह्याभ्यन्तरनिमित्तकत्वे सति आत्मनो यथायोगं चैतन्याऽनुकारिपरिणामविशेषरूपत्वं वोपयोगस्य लक्षणम् । पुद्गलं विना सर्वद्रव्याण्यरूपाणि नित्याऽवस्थितानि च । तत्र नित्यत्वं नाम परिणामान्तरोत्पत्ती सत्यामप्यन्वयिनोंऽशादप्रच्युतरूपत्वं कदाचिदपि पञ्चभूतार्थं न व्यभिचरतीत्येवंरूपत्वमवस्थितस्य लक्षणम् । जीवपुद्गलौ विना निष्क्रियाण्यपि तानि सन्ति । तत्र क्रियावत्त्वं नाम कर्मबन्धनिबन्धचेष्टाविशेषरूपत्वम्, निमित्तद्वयापेक्षत्वे सति द्रव्यस्य देशान्तरप्राप्तिहेतु
भूतपर्यायविशेषरूपत्वं वा । तदभाववत्त्वं निष्क्रियत्वम् । २. 'पक्वत्वम्' इति क. पुस्तके पाठः । ३. 'धारणाहरणसामर्थ्यम्' इति क. ह. पुस्तकयोः पाठः ।
( १४६
A
RANA स्याद्वादमञ्जरी