________________
अत्र चाऽऽत्मशब्देनाऽनन्तेष्वपि धर्मेष्वनुवृत्तिरूपमन्वयिद्रव्यं ध्वनितम् । ततश्च उत्पाद'-व्यय ध्रौव्ययुक्तं सत्' इति व्यवस्थितम्, एवं तावदर्थेषु । शब्देष्वपि उदात्ताऽनुदात्त-स्वरित-विवृत्त-संवृत्त-घोषवदघोषताऽल्पप्राणमहाप्राणतादयः, तत्तदर्थप्रत्यायनशक्तयाऽऽदयश्चाऽवसेयाः । अस्य हेतोरसिद्धविरुद्धाऽऽनैकान्तिकत्वादिकण्टकोद्धारः स्वयमभ्यूह्यः । इति एवमुल्लेखशेखराणि, ते तव प्रमाणान्यपि न्यायोपपनसाधनवाक्यान्यपि-आस्तां तावद् साक्षात्कृतद्रव्यपर्यायनिकायो भवान् यावदेतान्यपि, कुवादिकुरङ्ग-सन्त्रसनसिंहनादाः कुवादिनः . कुत्सितवादिन एकांशग्राहकनयाऽनया- ऽनुयायिनो- ऽन्यतीर्थिकास्त एव संसारवनगहनवसनव्यसनितया कुरङ्गा मृगास्तेषां सम्यक्त्रासने सिंहनादा इव सिंहनादाः । यथा सिंहस्य नादमप्याकर्ण्य कुरङ्गास्रासमासूत्रयन्ति, तथा भवत्प्रणीतैवंप्रकारप्रमाणवचनान्यपि श्रुत्वा कुवादिनस्र नुतामनुवते- प्रतिवचनप्रदानकातरतां बिभ्रतीति यावत् । एकैकं त्वदुपज्ञं प्रमाणमन्ययोग- व्यवच्छेदकमित्यर्थः ।
अत्र प्रमाणानि इति बहुवचनमेंवंजातीयानां प्रमाणानां भगवच्छासने आनन्त्यज्ञापनार्थम्। एकैकस्य सूत्रस्य सर्वोदधिसलिलसर्वसरिद्वालुकाऽन्तगुणार्थत्वात् । तेषां च सर्वेषामपि सर्वविन्मूलतया प्रमाणत्वात् । अथवा 'इत्यादिबहुवचनान्ता गणस्य संसूचका भवन्ति' इति न्यायाद् इतिशब्देन प्रमाणबाहुल्यसूचनात् पूर्वार्द्ध एकस्मिन् अपि प्रमाणे उपन्यस्ते उचितमेव बहुवचनम् । इति काव्यार्थः ।।२२।।
अनन्तरमनन्तधर्माऽऽत्मकत्वं वस्तुनि साध्यं "मुकुलितमुक्तम्, तदेव सप्तभङ्गीप्ररूपणद्वारेण प्रपञ्चयन् भगवतो निरतिशयं वचनातिशयं च स्तुवन्नाह
१. तत्त्वार्थसूत्रे अ. ५ सू. २९ उत्पादव्ययध्रौव्ययुक्तत्वं पदार्थसामान्यस्य लक्षणम् । तत्र
स्वजातित्वाऽ परित्यागपूर्वकपरिणामाऽन्तरप्राप्तिरूपत्वमुत्पादस्य लक्षणम् । स्वजातित्वाऽपरित्याग- पूर्वकपूर्वपरिणामविगमरूपत्वं व्ययस्य लक्षणम् । स्वजातिस्वरूपेण
व्ययोत्पादाऽभावरूपत्वं, स्वजातित्वरूपेणानुगतरूपत्वं वा ध्रौव्यस्य लक्षणम् । . २. कण्टकोद्धारः-दूषणोद्धारः । ३. 'त्रासताम्' इति क. ख. पुस्तकयोः पाठः । ४. त्वत्त एव प्रथमत उद्गमो यस्येत्यर्थः । ५. मुकुलितं-संक्षिप्तम् । स्याद्वादमञ्जरीhindianR१४७)