________________
अपर्ययं वस्तु समस्यमानमद्रव्यमेतच्च विविच्यमानम् ।
आदेशभेदोदितसप्तभङ्ग
मदीदृशस्त्वं बुधरूपवेद्यम् ||२३||
समस्यमानं संक्षेपेणोच्यमानं वस्तु, अपर्ययमविवक्षितपर्यायं वसन्ति गुणपर्याया अस्मिन्निति वस्तुधर्माऽऽ- धर्माऽऽ - काश- पुद्गल-काल- जीवलक्षणं द्रव्यषट्कम्'। अयमभिप्रायः-यदैकमेव वस्तु आत्मघटाऽऽदिकं चेतनाऽचेतनं सतामपि पर्यायाणामविवक्षया द्रव्यंरूपमेव वस्तु वक्तुमिष्यते । तदा संक्षेपेणाऽभ्यन्तरीकृतसकलपर्यायनिकायत्वलक्षणेनाऽभिधीयमानत्वाद् अपर्ययमित्युपदिश्यतेकेवलद्रव्यरूपमेव इत्यर्थः । यथाऽऽत्माऽयं घटोऽयमित्यादि पर्यायाणां द्रव्यानतिरेकात्, अत एव द्रव्यास्तिकनयाः शुद्धसंग्रहाऽऽदयो द्रव्यमात्रमेवेच्छन्ति पर्यायाणां तदविष्वग्भूतत्वात् । पर्ययः पर्यवः पर्याय इत्यनर्थान्तरम् । अद्रव्यमित्यादि-चः पुनरर्थे, स च पूर्वस्माद् विशेषद्योतने भिन्नक्रमश्चविविच्यमानं चेति, विवेकेन पृथग्रूपतयोच्यमानं पुनरेतद् वस्तु अद्रव्यमेव- अविवक्षिताऽन्वयिद्रव्यं केवलपर्यायरूपमित्यर्थः ।
,
,
यदा ह्यात्मा ज्ञानदर्शनादीन् पर्यायानधिकृत्य प्रतिपर्यायं विचार्यते, तदा पर्याया एव प्रतिभासन्ते, न पुनरात्माऽऽख्यं किमपि द्रव्यम् । एवं घटोऽपि कुण्डलौष्ठपृथुबुध्धोदरपूर्वा- परादिभागाद्यवयवापेक्षया विविच्यमानः पर्याया एव । न पुनर्घटाऽऽख्यं तदतिरिक्तं वस्तु । अत एव पर्यायाऽस्तिकनयाऽनुपातिनः पठन्ति -
'भागा एव हि भासन्ते संनिविष्टास्तथा तथा ।
तद्वान् नैव पुनः कश्चिनिर्भागः संप्रतीयते' ।। १ ।। इति ।
ततश्च द्रव्यपर्यायोभयोऽऽत्मकत्वेऽपि वस्तुनो द्रव्यनयाऽर्पणया
१. एतल्लक्षणानि ( १५२) पृष्ठ उक्तानि ।
२. 'एव' इति रा. पुस्तके नास्ति । ३. प्रतिशब्दा इत्यर्थः ।
१४८
ॐॐॐॐॐ स्याद्वादमञ्जरी