________________
पर्यायनयाऽनर्पणया च द्रव्यरूपता, पर्यायनयाऽर्पणया द्रव्यनयाऽनर्पणया च पर्यायरूपता, उभयनयार्पणया च तदुभयरूपता । अत एवाह वाचकमुख्यः‘'अर्पिताऽनर्पितसिध्देः' इति । एवं विधं द्रव्यपर्यायाऽऽत्मकं वस्तु त्वमेवाऽदीदृशस्त्वमेव दर्शितवान्, नान्य इति काक्वाऽवधारणाऽवगतिः ।
ननु अन्याऽभिधानप्रत्यययोग्यं द्रव्यम्, अन्याऽभिधानप्रत्ययविषयाश्च पर्यायाः । तत्कथमेकमेव वस्तूभयात्मकम्, इत्याशङ्कां विशेषणद्वारेण परिहरतिआदेशभेदेत्यादि- आदेशभेदेन सकलाऽऽदेशविकलाऽऽदेशलक्षणेन आदेशद्वयेन, उदिताः प्रतिपादिताः, सप्तसंख्या भङ्गा वचनप्रकारा यस्मिन् वस्तुनि तत्तथा । ननु यदि भगवता त्रिभुवनबन्धुना निर्विशेषतया सर्वेभ्य एवंविधं वस्तुतत्त्वमुपदर्शितम्, तर्हि किमर्थं तीर्थान्तरीयाः तत्र विपद्यन्ते इत्याहाबुधरूपवेद्यम् इति । बुध्यन्ते यथाऽवस्थितं वस्तुतत्त्वं ४ सारेतरविषयविभागविचारणया इति. बुधाः, प्रकृष्टा बुधा बुधरूपा नैसर्गिकाऽऽधिगमिकाऽन्यतरसम्यग्दर्शनविशदीकृतज्ञानशालिनः प्राणिनः, तेनैव वेदितुं शक्यं वेद्यं परिच्छेद्यम् । न पुनः स्वस्वशास्त्रतत्त्वाभ्यासपरिपाक"शाणानिशातबुद्धिभिरप्यन्यैः । तेषामनादिमिथ्यादर्शनवासना- दूषितमतितया 'यथाऽवस्थितवस्तुतत्त्वाऽनवबोधेन • बोधरूपत्वाऽभावात् । तथा चाऽऽगमः
‘"सदसदऽविसेसणाउ भवहेउजदिच्छिओवलंभाउ ।
णाणफलाभावाड़ मिच्छादिट्ठिस्स अण्णाणं' ।। १ ।।
अत एव तत्परिगृहीतं 'द्वादशाङ्गमपि मिध्याश्रुतमामनन्ति । तेषामुपपत्तिनिरपेक्ष यदृच्छया वस्तुतत्त्वोपलम्भसंरम्भात् । सम्यग्दृष्टिपरिगृहीतं तु मिथ्याश्रुतमपि
१. तत्त्वार्थसूत्रे ५। ३१ । उमास्वातिः - वाचकमुख्यः ।
२. काक्वर्थेन निचयताबोधनम् ।
३. 'इत्याशङ्कय' इति ख. घ. ह. रा. पुस्तकेषु पाठः ।
४. इदं सारमुत्कृष्टम् इदमसारं निकृष्टमिति विषयविभागः ।
५. शाणा- रत्नादिनिघर्षणशिला सा चात्र स्वशास्त्रतत्त्वाभ्यासपरिपाकस्तत्र निशाता तीक्ष्णीकृता बुद्धिर्येषां तैरित्यर्थः ।
६. 'यथास्थित' इति क. ख. रा. पुस्तकेषु पाठः ।
७. विशेषावश्यक गाथा ११५ । सदसदविशेषणोद्भवहेतुयदृच्छोपलम्भात् ।
ज्ञानफलाभावा- मिथ्यादृष्टेरज्ञानम् ।। १ ।। इति छाया ।
८. द्वादस्याऽङ्गस्य मूलत उपदेष्टा श्रीसर्वज्ञो वीतरागः । यस्य स्वरूपं महात्मानो निरन्तरं ध्यायन्ति । स्वप्रतीत्या च तत्पदप्राप्तिमेव सर्वस्वप्राप्तिमनुभवन्ति । सर्वज्ञवचनानि संप्रधार्य स्याद्वादमञ्जरी ॐ ॐ ॐ ॐ ॐ ॐ
* १४९