________________
सम्यक् श्रुततया परिणमति, सम्यग्दृशां सर्वविदुपदेशाऽनुसारिप्रवृत्तितया मिथ्याश्रुतोक्तस्याऽप्यर्थस्य यथाऽवस्थित- विधिनिषेधविषयतयोनयनात् । तथा हि किल वेदे' अजैर्यष्टव्यम्' इत्यादिवाक्येषु मिथ्यादृशोऽजशब्दं पशुवाचकतया व्याचक्षते, सम्यग्दृशस्तु जन्माऽप्रायोग्यं त्रिवार्षिकं यवव्रीह्यादि, पञ्चवार्षिकं तिलमसूरादि, सप्तवार्षिकं कङ्गसर्षपादि । धान्यपर्यायतया पर्यवसाययन्ति । अत एव च भगवता
महाऽऽचायैस्तद् न्यबन्धि । द्वादशाङ्गनामानि चैवम्-१ आचाराङ्गम् २ सूत्रकृतं ३ स्थानाङ्गं ४ समवाययुक् । ५ पंचमं भगवत्यंगं ६ ज्ञाता धर्मकथापि च ।।१५७।। ७ उपासका ८ न्तकृद ९ नुत्तरोपपातिकादशाः। १० प्रश्नव्याकरणं चैव ११ विपाकश्रुतमेव च ।।१५८ ।। १२ द्वादशं पुनदृष्टिवादः ।।१५९।। अत्रान्तिमस्य दृष्टिवादस्य व्यच्छेदात् एकादशैवाऽङ्गानि एकादशाङ्गेतिसंज्ञया श्वेताम्बरेषु प्रसिद्धानि । (आचरणमाचारः । आचर्यते इति वा शिष्टाऽऽचरितो ज्ञानादि 'आदिशब्दाद्दर्शनाचारचारित्राचारतप आचारवीर्याचाराणां ग्रहणम्' आसेवनविधिरित्यर्थः । तत्प्रतिपादको ग्रन्थोऽप्याचारः स चासावङ्गं च । आचाराङ्गम् । तस्य द्वौ श्रुतस्कन्धौ. । तत्र प्रथमो नवाध्ययनात्मकः (तत्र सप्तमाध्ययनं व्युच्छिन्नम्) । द्वितीयः षोडशाऽध्ययनाऽऽत्मकः । एवं पंचविंशतेरध्ययनानां पंचविंशतिशतसंख्यांकाश्लोकाः । तत्र श्रीशीलांकाचार्यकृतटीका १२००० चूर्णि ८३०० श्रीभद्रबाहुस्वामिकृतनियुक्ति
(गाथा ३६८) श्लोकसंख्या ४५० संपूर्णसंख्या २३२५० लोकपरिमिता ।। (२) सूचनात्सूत्रं सूत्रेण स्वपरसमयसूचनेन कृतं सूत्रकृतम् तस्य द्वौ श्रुतस्कंधौ । तत्र प्रथमः
षोडशाध्ययनात्मकः द्वितीयः सप्ताध्ययनात्मकः । एवं त्रयोविंशतेरध्ययनानां मूलश्लोकसंख्या २१०० । श्रीशीलांकाचार्यकृतटीका १२८५० चूर्णि १०००० । श्रीभद्रबाहुस्वामिकृतनियुक्ति (गाथा २०८) श्लोकसंख्या २५० संपूर्णसंख्या २५२०० परिमिता । १५८३ संवत्सरे
श्रीहेमविमलसूरिभिर्दीपिका प्रणीता । एतत्संख्या तु पूर्वोक्तसंख्यायां नान्तर्भाविता । (३) तिष्ठन्त्यस्मिन् प्रतिपाद्यतया जीवादय इति स्थानं एकादिदशान्तसंख्याभेदो वा स्थानं तत्प्रतिपादको
ग्रन्थोऽपि स्थानं तञ्च तदङ्गं च स्थानाङ्गम् । अस्य दशाध्ययनानि (स्थानानि) । मूलश्लोकसंख्या
३७७० श्री अभयदेवंसूरिकृतटीका १५२५० संपूर्णसंख्या १९०२० । (४) समवायनं समवायः एकादिशतान्तसंख्यासमाविष्टानां पदार्थानां सङ्ग्रहः । तद्धेतुश्च ग्रन्थोऽपि
समवायः । मूलश्लो. १६६७ श्रीअभयदेवसूरिकृतटीका ३७७६ पूर्वाचार्यकृता चूर्णिः ४००
संपूर्णसंख्या ५८४६ लोकपरिमिता । (५) भगवतीति पूजाभिधानं व्याख्याप्रज्ञप्तेः पंचमांङ्गस्य सा चासौ अङ्ग च भगवत्यङ्गम् । तस्याः
४१ शतकानि । मूलश्लो. १५७५२ श्रीअभयदेवसूरिकृतटीका १८६१६ । पूर्वाचार्यकृता चूर्णिः ४००० संपूर्णसंख्या ३८३६८ लोकपरिमिता । संवत् १५६८ वर्षे श्रीमद्दानशेखरोपाध्यायेन
१२००० श्लोकपरिमिता लघुवृत्तिः कृता । (६) ज्ञातानि उदाहरणानि तत्प्रधाना धर्मकथा ज्ञाताधर्मकथा तत्प्रतिपादको ग्रन्थोऽपि तथा ।
एकोनविंशतिरध्ययनानाम: । मूल ५५०० श्रीअभयदेवसूरिकृतटीका ४२५२ संपूर्णसंख्या
९७५२ श्लोकपरिमिता । (१५०NASAAMANA स्याद्वादमञ्जरी)