________________
श्रीवर्द्धमानस्वामिना,''विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यति, न प्रेत्य संज्ञास्ति' इत्यादिॠचः श्रीमदिन्द्रभूत्या 'दीनां द्रव्यगणधर देवानां जीवादिनिषेधकतया प्रतिभासमाना अपि तद्व्यवस्थापकतया व्याख्याताः । तथा स्मार्ता अपि
(७) उपासकाः श्रावकाः तद्गतक्रियाकलापप्रतिबद्धा दशा दशाध्ययनरूपा उपासकदशाः बहुवचनान्तमेतद्ग्रन्थनाम । दशाध्ययनात्मकः मूलश्लो. ८१२ श्रीअभयसूरदेवसूरिकृतटीका ९०० संपूर्णसंख्या १७१२ लोकपरिमिता ।
(८) अंतो विनाशः स च कर्मणः तत्फलभूतस्य वा संसारस्य तं कुर्वन्ति ये तीर्थकरांदयस्तेऽन्तकृतः तेषां दशाः प्रथमवर्गो दशाध्ययनात्मकत्वात् तत्संख्यया अंतकृद्दशाः । अध्ययनानि नवतिः (९०) । मूलश्लो. ९०० श्रीमदभयदेवसूरिकृतटीका ३०० संपूर्णसंख्या १२०० लोकपरिमिता । (९) न विद्यते उत्तरः प्रधानोऽस्मादित्यनुत्तर उपपतनं उपपातो जन्म अनुत्तरप्रधानः संसारेऽन्यस्य तथाविधस्याऽभावत् उपपातोऽस्त्येषामित्यनुत्तरोपपातिकाः विजयवैजयन्तजयंतापराजितसर्वार्थसिद्धविमानपंचकजन्मानो देवाः तद्वक्तव्यता प्रतिबद्धदशाः दशाध्ययनोपलक्षिता अनुत्तरोपपातिकदशाः । अध्ययनानि त्रयोविंशतिः मूल श्लो. २९२ श्री अभयदेवसूरिकृतटीका १०० संपूर्णसंख्या ३९२ लोकपरिमिता ।
(१०) प्रश्नः पृच्छा तन्निर्वचनं व्याकरणं प्रश्नव्याकरणं तत्प्रतिपादको ग्रन्थोऽपि प्रश्नव्याकरणम् । दशाध्ययनात्मकम् । मूलश्लो. १२५० श्री अभयदेवसूरिकृतटीका १६० संपूर्णसंख्या ५८५० श्लोकपरिमिता ।
(११) विपचनं विपाकः शुभाशुभकर्मपरिणामः तत्प्रतिपादकं श्रुतं विपाकश्रुतम् । विंशत्यध्ययनात्मकम् । भूल श्लो. १२१६ श्री अभयदेवसूरिकृतटीका ९०० संपूर्णसंख्या २११६ श्लोकपरिमिता ।
(१२) दृष्टयो दर्शनानि तासां वदनं दृष्टिवादः दृष्टीनां पातो यत्रासौ दृष्टिपातोऽपि सर्वनयदृष्टय इहाख्यायन्त इत्यर्थः । सर्वमिदं प्रायो व्यवच्छिन्नम् । एकादशाङ्गानां मूलसंख्या ३५६५१ श्लोकपरिमिता । टीका च ७३५४४ (श्रीअभयदेवसूरिणा ( नवांगीवृत्तिकारेण ) तृतीयादेकादशांङ्गापर्यन्त कृता ४८६९४ प्रथमद्वितीयाङ्गस्य श्रीशीलांकाचार्येण कृता च टीका २४८५० श्लोकपरिमिता ) चूर्णि: २३७०० निर्युक्तिः ७०० संपूर्णसंख्या १३२६०३ लोकपरिमिता ।
१. बृ. २।४ ।१२
२. १ इंद्रभूति २ रग्निभूति ३ र्वायुभूतिः सहोद्भवाः । ४ व्यक्तः ५ सुधर्मा ६ मण्डित ७ मौर्यपुत्रौ सहोदरौ ।। ८ अकम्पितो ९ ऽचलभ्राता १० मेतार्यश्च ११ प्रभासकः । इत्येकादश गणधराः । ३. अनुत्तरज्ञानदर्शनादिधर्मगणं धरतीति-गणधरः ।
४. यदा भगवान्महावीरः केवलज्ञानदर्शनोत्पत्तिसमनंतरं विहरन् अपापापुर्यां (प्राक्किल तस्या नगर्या
(स्याद्वादमञ्जरी ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ १५१